Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४६६ )
स्वाङ्गतश्च्व्य र्थनानाविनाधार्थेन भुवश्च ।।४।८६॥ तसन्तेन स्वाङ्गन, च्व्यर्थवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थात् भुवः कृगश्च धातोः संबन्धे क्त्वाणमौ स्याताम् । मुखतो भूत्वा । मुखतोभूय । मुखतोभावमास्ते। नाना भूत्वा, नानाभूय, नानाभावं गतः, विनाभूत्वा, विनाभूय, विनाभावं गतः, द्विधा भूत्वा, द्विधाभूय, द्विधाभाठमास्ते । एवं पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते इत्यादि । च्व्यर्थ इति किम् । नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥८६॥ स्वाङ्गत०:-"स्वाङ्गत' इति शब्दस्वरूपं न,ग्राह्यमपि तु तस्प्रत्ययान्त स्वाङ्ग व्याख्यानात्, तथा च न स्वाङ्गशब्द इहोपपदमपि तु तद्वाचकं शब्दमात्र तस्प्रत्ययान्तमिति मनसिकृत्याह तसन्तेन स्वाङ्ग नेति । वचनभेदाद् धातुप्रत्यययथासंख्यं नास्ति । मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्त इति-स्वाङ्गवाचकान्मुखशब्दात् 'आद्यादि०' ।७।२।८४। इति सम्भवद्विभक्तयन्तात् तसौ–'मुखतः' इति, 'भू सत्तायाम्' अतः क्ति व 'भूत्वा' इति तृतीयोक्त वा' ।३।१।५०।, इति, समासे क्त वो यबादेशे–'मुखतोभय' इति, णमि वृद्धावावादेशे च 'भावम्' इति समासेतु 'मुखतोभावम्' इति । 'स्वाङ्गतः इति पृथग्निर्देशान्न तस्य च्व्यर्थवृत्तित्वमिह विवक्षितम् । नानाभूत्वेत्यादि-'अनाना नाना भूत्वा गत' इति वाक्यम् । धार्थाः प्रत्यया धा-धमक-एधाध्यमत्र इत्याह-द्विधा भूत्वेत्यादि द्वाभ्या प्रकाराभ्यामिति प्रकारार्थे एको राशिद्वी इति विचालार्थे च 'विचाले च' ।७।२।१०५॥ इति द्विधा पाश्वतः कृत्वेत्यादि-तसन्तेन स्वाङ्गन कृग उदाहरणमिदम्, पार्श्वशब्दः स्वाङ्गवाचकः ॥८६।। ।
तूष्णीमा ।।४।। तूष्णी योगे तुल्यकर्तृ कार्थात् भ वो धातोः सम्बन्धे क्त्वाणी स्याताम् । तूष्णीं भूत्वा । तूष्णीभ य । तूष्णीभावमास्ते ॥८७।।
Page Navigation
1 ... 471 472 473 474 475 476