Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४६५ )
अव्ययेन योगे तुल्यकर्त कार्यात्कृगोऽनिष्टोक्तौ गम्यायां धातोः सम्बन्धे क्त्वाणमौ स्याताम् । ब्राह्मणपुत्रस्ते जातः किं तर्हि वृषल नीचः कृत्वा, नीचैः कृत्य, नीचैः कारं कथयसि, उच्चै
मि प्रियमाख्येयम् । अनिष्टोक्ताविति किम् । उच्चैः कृत्वाऽऽचष्टे ब्राह्मण पुत्रस्ते जात इति । अव्ययेनेति किम् । ब्राह्मण पुत्रस्तेजातः किं तहि वृषल मन्दं कृत्वा कथयसि ॥४॥ कृगो०- अनिष्टोक्ताविति-अनिष्टोक्तिः प्रियस्योच्चैरप्रियस्य नीच्चैः कथनमिष्टम्, तद्विपरीतमनिष्टम्, तथा चाप्रियस्योच्चरुक्तिः प्रियस्य नीचैरनिष्टोक्तिरिति फलितम् । 'डुकृग्-कृ करणे' अतोऽनेन क्त विकृत्वा, वा समासे क्त वो यबादेशे-कारम्, वा समासे च=नीचैः कारम् । ब्राह्मण ! पुत्रस्ते जात इत्यादि-अनानिष्टोक्तिः कथमिति दर्शयितुमाह= उच्चै म प्रियमाख्येयमिति पुत्रजन्मस्येष्टत्वेऽपि मन्दस्वरेण तदभिधानं नेष्टमिति भावः । वाऽधिकारेणैव पक्षे क्त वाया: सिद्धौ समासार्थं तद्विधामम, अन्यथा हि णम एव पाक्षिकः समासः स्यात्, न तु क्त वः । क्त्वा चेत्यकृत्वा णम्विधान मुत्तरत्रोभयानुवृत्त्यर्थम् ।।४।।
तियंचाऽपवर्गे ॥४॥
क्रियासमाप्तौ गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृ कार्थात कृगो धातोः संबन्धे क्त्वाणमौ स्याताम् । तिर्यकृत्वा,तिर्यक्कारमास्ते । अपवर्ग इति किम् । तिर्थक्कृत्वा काष्ठं गतः ॥१५॥ तिर्यचा०=| अपवर्गः-क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः त्यागो वा । क्रियासमाप्तविति=इदमुपलक्षणम्, तेन समाप्तिपूर्वके विरामे त्यागे वेत्यर्योऽपि लभ्यते । तिर्यक् कृत्वेत्यादि- समाप्य विरम्य वा उत्सृज्यवाऽऽस्ते इत्यर्थः । तिर्यक् कृत्वा काष्ठं गत इति-अनृजः कृत्वा, पार्श्वतः कृत्वेत्यर्थः, नह्यत्र कस्याश्चन क्रियायाः समाप्तिः विरामस्त्यागो वा गम्यत इत्यस्या प्रवृत्त्या 'प्राक्काले' ।५।४।४७। इति क्त वैव भवतीति भावः ॥८॥
Page Navigation
1 ... 470 471 472 473 474 475 476