SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ( ४६५ ) अव्ययेन योगे तुल्यकर्त कार्यात्कृगोऽनिष्टोक्तौ गम्यायां धातोः सम्बन्धे क्त्वाणमौ स्याताम् । ब्राह्मणपुत्रस्ते जातः किं तर्हि वृषल नीचः कृत्वा, नीचैः कृत्य, नीचैः कारं कथयसि, उच्चै मि प्रियमाख्येयम् । अनिष्टोक्ताविति किम् । उच्चैः कृत्वाऽऽचष्टे ब्राह्मण पुत्रस्ते जात इति । अव्ययेनेति किम् । ब्राह्मण पुत्रस्तेजातः किं तहि वृषल मन्दं कृत्वा कथयसि ॥४॥ कृगो०- अनिष्टोक्ताविति-अनिष्टोक्तिः प्रियस्योच्चैरप्रियस्य नीच्चैः कथनमिष्टम्, तद्विपरीतमनिष्टम्, तथा चाप्रियस्योच्चरुक्तिः प्रियस्य नीचैरनिष्टोक्तिरिति फलितम् । 'डुकृग्-कृ करणे' अतोऽनेन क्त विकृत्वा, वा समासे क्त वो यबादेशे-कारम्, वा समासे च=नीचैः कारम् । ब्राह्मण ! पुत्रस्ते जात इत्यादि-अनानिष्टोक्तिः कथमिति दर्शयितुमाह= उच्चै म प्रियमाख्येयमिति पुत्रजन्मस्येष्टत्वेऽपि मन्दस्वरेण तदभिधानं नेष्टमिति भावः । वाऽधिकारेणैव पक्षे क्त वाया: सिद्धौ समासार्थं तद्विधामम, अन्यथा हि णम एव पाक्षिकः समासः स्यात्, न तु क्त वः । क्त्वा चेत्यकृत्वा णम्विधान मुत्तरत्रोभयानुवृत्त्यर्थम् ।।४।। तियंचाऽपवर्गे ॥४॥ क्रियासमाप्तौ गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृ कार्थात कृगो धातोः संबन्धे क्त्वाणमौ स्याताम् । तिर्यकृत्वा,तिर्यक्कारमास्ते । अपवर्ग इति किम् । तिर्थक्कृत्वा काष्ठं गतः ॥१५॥ तिर्यचा०=| अपवर्गः-क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः त्यागो वा । क्रियासमाप्तविति=इदमुपलक्षणम्, तेन समाप्तिपूर्वके विरामे त्यागे वेत्यर्योऽपि लभ्यते । तिर्यक् कृत्वेत्यादि- समाप्य विरम्य वा उत्सृज्यवाऽऽस्ते इत्यर्थः । तिर्यक् कृत्वा काष्ठं गत इति-अनृजः कृत्वा, पार्श्वतः कृत्वेत्यर्थः, नह्यत्र कस्याश्चन क्रियायाः समाप्तिः विरामस्त्यागो वा गम्यत इत्यस्या प्रवृत्त्या 'प्राक्काले' ।५।४।४७। इति क्त वैव भवतीति भावः ॥८॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy