Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 425
________________ ( ४१८ ) भावार्थकत्वेऽपि सामान्य विहितत्वेऽपि च पुस्त्वम् नुशासनवशात्, तथापि सामान्यतो भावमात्रे विधाने घनादीनां बाधकत्वमस्य न स्यादिति तदर्थ नपुंसकत्वविशिष्टे भावे विधानमावश्यकम् । किञ्च तत् स.प्या०।३।३।२१ इति सूत्रेणाकर्मकेभ्य एव क्तस्य भावे विधानमनेन च सकर्मकेभ्योऽपीति 'गतं तिरश्चीनमनूरूसारथेः' इत्यादिप्रयोगाः सकर्मकेभ्योऽपि विहिताः । तथा चावश्यकमेवास्य पृथग्विधानमिति । 'हस हसने अतोऽनेन क्त स्याद्य० ।४।४।३२। इतीटि-हसितं तवेति-अत्र 'कर्तरि' ।२।२।८६। इति षष्ठी। हास इति-अत्र क्लीबत्वाभावादस्याप्रवृत्त्या: भावाकों: ।५।३।१८। इति घनि-हासः ॥१२३।। अनट् ।।३।१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् । गमनम् ॥१२४॥ अनट्०-। योग बिभाग उत्तरत्रानड्मात्रस्यानुवृत्त्यर्थः । ढकार उत्तरत्र ड्यर्थः ॥१२४॥ यत्कर्मस्पर्शात्करृङ्गसुखं ततः ॥५॥३॥२५॥ येन कर्मणासंस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात्ततः पराद्धातोः क्लीबे भावे ऽनट् स्यात् । पयपानं सुखं । कर्मेति किम् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कति किम् । शिष्येण गुरोः स्नापनं सुखम् । अङ्गति किम् । पुत्रस्य परिष्वजनं सुखम् । सुखमिति किम् । कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥१२५॥ यत्कर्मस्पर्शा०-। पयः पानं सुखमिति–पयसः पाने शरीरोपः चयेन पान-. कालेऽमि तस्य जिह्वया स्पर्शात् शरीरे हषों जायत एवेति शरीरसुखोत्पत्तिनियता । तूलिकाया उत्थानं सुखमिति--उत्पूर्वात् स्थाधातोः पूर्वेणान

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476