Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 440
________________ ( ४३३ ) किम् । कालो यदभोक्ष्यत भवान् ॥ ११॥ वात्प्राक् । कथं नाम संयत इत्यादि - संयतः सन् - माधुकरीं वृत्ति भजमानो मुनिजनः सन्, अनागाढे - प्रबलकारणाभावेऽपि तत्रभवान्पूज्यः, आधाय कृतमिति 'अव्ययं प्रवृद्धादिभिः' | ४ | ३ | ४ | इति समासः, भवन्तं मनसिकृत्य भवत्कृते कृतमाहारमिति यावत्, 'सेवृङ सेवने' इत्यस्य 'असेविष्यत' इति, 'संयतः सन्' इति कथनेन तस्य तादृशकार्यकरणस्य बुद्धिपूर्वकत्वं ध्वनयति, अत एव गर्हा, अबुद्धिकृते हि कर्मणि क्षमा कतु ं शक्यते, न बुद्धिकृते । 'कथमि० ' | ५|४| १३ | इति सप्तमीनिमित्तमत्र । कालो यदभोक्ष्यत भवानिति - 'सप्तमी यदि' | ५|४ | ३४ | इति सप्तमीनिमित्तस्योतात्परत्वेनास्याप्रवृत्त्या 'भूते' | ५|४|१०| इति क्रियातिपत्तिः ||११|| क्षेपेऽपिजात्वोर्वर्त्तमाना | ५|४|१२| क्षेपेगम्येऽपिजात्वोरुपपदयोर्धातोर्वर्तमाना स्यात् । अपितत्र भवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, धिग्गह महे ॥१२॥ क्षेपे० o भूत इति निवृत्तम् । क्षेपो गर्हा । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवानि - त्यादि - इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्तिर्नोदाह्रियते ।।१२।। कथम सप्तमी च वा । ५|४|१३| कथं शब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्त्तमाना व वा स्यात् । कथं नाम तत्रभवान् मांसं भक्षयेत्, भक्षयति का गर्हामहे अन्याय्यमेतत् । पक्षे । अबभक्षत् । अभक्षव्रत् । भक्षयांचकार । मक्षयिता । भक्षयिष्यति । अत्र सप्तमी निमित्तम

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476