Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 448
________________ -- ( ४४१ ) प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ।।४।२६ी प्रेषादिविशिष्ट कादावर्थे कृत्याः पञ्चमी च स्युः । न्वत्कारपूविका प्रेरणा प्रेषः । भवता खलुः कटः कार्यः। भवान् कटं करोतु। भवान् हि प्रेषितः, अनुज्ञातः, भवतोऽवसरः कटकरणे ॥२६॥ अनुज्ञा कामचारानुमतिः, अतिसर्ग इति यावत् । अवसरः प्राप्तकालता, निमित्तभतकालोपनतिः । भवता खलु कट: कार्य इति'भवता' इत्यत्र 'कृत्यस्य वा' ।२।२।२८। इति षष्ठीविकल्पनात् कर्तरि तृतीया 'खलु' इत्यवधारणादिद्योतकमव्ययम्, कृत्येन कर्मण उक्तत्वात कट इत्यत्र प्रथमा, 'वर्ण०' ।५।१।१७। इति ध्यणि वृद्धी-कार्यः । एकवैव प्रयोगेऽर्थत्रयस्य संगति दर्शयति-भवान् हीत्यादिना । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरन्निति पुविधीयते ।।२९।। सप्तमी चोर्ध्वमौहूत्तिके ।।४॥३०॥ प्रषादिषु गम्येषु ऊर्ध्वमौहूत्तिकेऽर्थे वर्तमानात्सप्तमी कृत्यपञ्चम्यौ च स्युः । ऊर्द्ध मुहूर्तात् कटं कुर्यात् भवान् । भवता कटः कार्यः । कटं करोतु भवान्। भवान् हि प्रेषितोऽनुज्ञातः, - भवतोऽवसरः कटकरणे ॥३०॥ सप्तमी०-। ऊर्ध्वं मुहूर्तादु-परि मुहूर्तस्य भवोऽर्थ ऊर्ध्व मौहूर्तिकः ॥३०॥ स्मे पञ्चमी (५॥४॥३१॥ स्मे उपपदे प्रषादिषु गम्येषु ऊद्ध मौहूंतिकार्थाद्धातोः पञ्चमी स्यात् । ऊर्ध्व मुहूर्तात् भवान् कटं करोतु स्म। भवान् हि प्रेषि

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476