Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 447
________________ ( ४४० ) त्मनेपदेऽनेन सप्तम्यां भुञ्जीत । कच्चित् जीवति मे मातेति - - मातुर्जीवनमभिलषितमिति कचिच्छब्देन प्रवेदयति । असप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः -- कामो मे भोक्ष्यत भवान् ||२६|| इच्छार्थे सप्तमीपञ्चम्यौ | ५|४|२७| इच्छार्थे धातावुपपदे कामोतो गम्यायां सप्तमीपञ्चम्यौ स्याताम् । इच्छामि भुञ्जती, भुङ्क्तां वा भवान् ||२७|| इच्छार्थे०=।सर्वविभक्त्यपवादोऽयं योगः । अत्र सत्यपि सप्तमीनिमित्ते इच्छार्थे उपपदे कामोौ क्रियातिपतनस्यासामर्थ्येनासंभवात् क्रियातिपत्तिर्न भवति ॥ २७॥ विधिनिमन्त्रणामन्त्रणाऽधीष्टसम्प्रश्नप्रार्थने । ५४२८. 1 विध्यादिविशिष्ट षु कर्तृ कर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा । कंटं कुर्यात् । करोतु भवान्, प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । द्विस=ध्यमावश्यकं कुर्यात् । करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् । इहासीत । आस्ताम् । प्रेरणेव सत्कापूर्विका अधिष्टम् । व्रतं रक्षेत् । रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो व्याकरणमधीयीय । अध्यये । उत सिद्धान्तमधीयीय । अध्ययै । प्रार्थनं याञ्च । प्रार्थना मे तर्कमधीयी | अध्ययै ॥ २८॥ 1 . सर्वविभक्तयपवादो योगः । ' तत्साप्या ० ' | ३ | ३ |२१| इत्यादिना ये प्रत्यया विहितास्तेषां ये भावकर्मकर्तारोऽर्थास्तेषामयं विध्यादिरर्थो विशेषणमित्याह विध्याविशिष्टेषु कर्तृ कर्मभावेषु प्रत्ययार्थेष्विति ||२८||

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476