Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 456
________________ ( ४४६ ) . भाष्यमधीध्वे इत्येवमधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति माभूत् ॥४३॥ प्रत्ये०-भशाऽऽभीक्ष्ण्ये यथाविधीति च नानुवर्तते । प्रचये-समुच्चय इत्यर्थ इत्याह-धात्वर्थानां समुच्चये इति-स्वतः साघनमेदेन वा भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावापे इत्यर्थ । सामान्यार्थस्येतिस्वतः. साधनभेदेन वा भिद्यमानयोर्धात्वोर्धातूनां वा मध्ये योऽर्थः सामान्यतया भासते सर्वेषु स एवार्थो विशिष्य यस्य धातोस्तादशस्य धातोरनुप्रयोगे सतीति भावः । हिस्वाविति-परस्मेपदितो हि, आत्मने पदितः स्वो भवतीत्यर्थ, एवमन्यत्रापि । व्रीहीन् वप लुनीहि पुनीहि इत्यत्र धात्वर्थानां स्वरूपत एव भेद , वपनलवनपवनानां धात्वर्थानां मध्ये यत्नरूपोऽर्थ सामान्यतया भासत इति तदर्थक एव धातुः-यति रनु-प्रयुज्यते, तत्र कर्तृत्वविवक्षायां यतते' इति भावविवक्षायां 'यत्यते' इति चेति सर्वत्र प्रयोगे ऊहनीयम्, अत्रानुप्रयोगार्थेन सामान्येन सह समुच्चीयविशेषाणामभेदान्वयः, तथा. चं वपनाद्यभिन्नो वर्तमानकालिको यत्न इति रूपेण वाक्यार्थ ऊहनीयः, एवं ययासम्भवमन्यत्रापि विज्ञयमिति । व्रीहीन वपेत्यादि-अत्रानुप्रयोगे स्वरूपत एव विशेषात् सामान्यार्थत्वाभावः ॥४३॥ - निषेधेऽलंखल्वोः क्त्वा ।।४।४४। निषेधार्थ योरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा । खलुकृत्वा । अलं रुदितेन ॥४४॥ नियेथे०–'क्त्वा वा' स्यादिति–'क्त्वातु० ।।१।१३। इति सूत्रण क्त्वाप्रत्ययस्य भावे विधानम्, भावे च-अनः-क्तोऽन्ये च प्रत्यया विधीयन्ते, तेषा-मप्यवकाशाय पूर्वसूत्रात् नवाग्रहणमनुवर्त्य विकल्पेन क्त्वा-प्रत्ययो विधीयते, अन्यथाऽत्र वाऽसरूपविधेनिवर्ततनेन नित्यमेव तेषां बाधः स्यात् । क्त वान्तयोग एव खलुशब्दो पिंधवाचक इति पक्षे खलुशब्दो नोदाह्रियते।

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476