Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 454
________________ ( ४४७ ) भशाऽऽभीक्ष्ण्ये० - । गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्येन सम्पत्तिः फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनस्पुन्यमाभीक्ष्ण्यम् । 'धातोः सम्बन्धे' इति पूर्वतोऽनुवृत्तम्, तद्धि यथाविधि ' इत्यनेन सम्बध्यते, तथा च वाक्यद्वयं संपाद्य सूत्र व्याख्याति - भृणाऽऽभीक्ष्ण्ये सर्वकालेऽर्थे वर्तमानादित्यादिना सर्वे भूतभविष्यवर्तमानकाला सन्त्यस्येति बहुव्रीहौ सर्वकाले, अत्र नैकस्मिन्नर्थे सर्व कालत्वं संभवति, किन्तु 'अर्थे' इत्यत्र जातावेकवचनम्, तथा च सर्वकालेष्वर्थेषु इत्यर्थो बोध्यः । अत्र परस्मैपदिभ्यो हिः, आत्मनेपदिभ्यश्च स्वः, तत्र हिः कर्तर्येव, स्वस्तु भावकर्म-कर्तृषु आत्मनेपदस्य सर्वत्र विधानातु, एवं च मध्यमपुरुषैकवचनीयप्रत्ययद्वयमिदमिति मध्यमपुरुषैकवचन एवं प्रयुज्येतेत्याशङ्कावारणायाह - सर्वविभक्तिवचनविषय इति - यदि मध्यमपुरुपैकवचन एवानयोविधानमभिमतं स्यात्, तर्हि तध्वमोर्विषयेऽप्यनयोविधानमनुचितं स्यात् । तौ च पञ्चमीसम्बन्धिनौ ज्ञेयो अन्यथा तयोः विभक्तित्वाभावेन तदन्तस्य पदत्वं न स्यात् । किमविशेषेण हिस्वयोविधानम् ? नेत्याह--यथाविधिधातोः सम्बन्धे इति । धातोः सम्बन्धस्य विध्यनतिक्रमं दर्शयति-यस एव धातोरित्यादिना, अयमाशय:पः - हिस्वौ सकल- विभक्तिवचनविषये भवत इति पूर्वयुक्तम्, तथा च वचनविभक्तिभेदावगमो न स्यात् न च तथा सति साधीयसी अर्थप्रतीतिर्भवतीति स एव धातुर्यथोचितविभक्तिवचनेन सहानुप्रयुज्यत इति पुरुषवचनयोरभिव्यक्तिर्भवति । द्वितीय वाक्यार्थमाह तथा पञ्चम्या एवेत्यादिना यथाविधि धातोः सम्बन्धे इत्यन्तेन यथाविधीत्यस्य देहलीदी पन्यायेनोभयवाक्येऽपि सम्बन्धात् तदन्वयि धातोः सम्बन्धे इत्यप्युभयान्वयीति भावः । तद्यष्मदीत्यस्यार्थमाह- तयोरित्यादिना युष्मद्यर्थे इत्यन्तेन तध्वमौ हि बहुत्वविशिष्टे युष्मदभिधेये भवतः इत्येतदुद्विहितावपि तौ तत्रैवाभिधेये भवि प्यतः । उदाहरति-लुनीहि लुनीहीत्येवायं लुनातीत्यादीति - अतिशयेन वा लवनमिति 'लुनीहि लुनीहि' इत्यस्यार्थः एककर्ता के वर्तमानकालिकं लवनमिति 'लुनाति' इत्यस्यार्थः, इतिशब्दस्तु अभेदान्वये तात्पर्यं ग्राहयति, एवं चातिशयेन पौनस्पुन्येन वा लवनाभिन्नं वर्तमानकालिक मेककर्तृ क लवनमिति वाक्यार्थः । इति - शब्दाभावे च प्रयोगेण सहानुप्रयोगस्यान्वय न 'स्यात्, . आख्यातयोरसत्त्वरूपार्थवाचकयोः स्वतः सम्बन्धस्य दुरुपपादत्वात् । ननु इतिशब्देन व्यवधानात् 'लुनाति' इत्यस्यानुप्रयोगत्वं कथम् ? अनु पश्चादव्यवधानेन प्रयोगो ह्यनुप्रयोग इति चेत् ? इति - शब्दस्य

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476