Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 452
________________ ( ४८५ ) - - ङिति' ।४।३।४४॥ इति वृद्धौ ‘अड् धातोः' ।४।४।२६। इत्यत्र 'अमाङा' इति वचनादडभावे-मा कार्षीत् ।।३६।। सस्मे शस्तनी च ।।४।४०॥ स्मयुक्ते माङय पपदे शस्तन्यद्यतनी च स्यात् । मा स्म करोत् । मा स्म कार्षीत् ॥४०॥ सस्मे० -। मा शब्देन निषेध उच्यते, स्मशब्देन च स एव घोत्यते ॥४०॥ धातोः सम्बन्धे प्रत्ययाः ।।४।४१॥ धात्वर्थानां . संबन्धे विशेषणविशेष्यभावे सत्ययथाकालमपि प्रत्ययाः साधवः स्युः। विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । गोमानासीत् ॥४१॥ धातोः । यद्यपि धातुशब्दो भ्वादिष्वेव वर्तते, तथाप्यिभिधेयेभिधानोपचारं कृत्वा धात्वर्थो धातुशब्देन निर्दिष्ट इत्याह धात्वर्थानां सम्बन्धे इति । कः पुनः सम्वन्ध इत्याह-विशेष्यविशेषण भावे सतीति । अयथाकालमपि प्रत्ययाः साधवो भवन्तीति=यो यस्यात्मीय-कालो यथाकात्वम्, 'यथाऽथा' ।३।१।४१। इति वीप्सायां समासः, न यथाकालमयथाकालम् । • एतदुक्त भवति-स्वः स्वैविधायक-वाक्यैर्यत्र, यस्मिन् यस्मिन् काले ये ये विहितास्ततोऽन्यत्र कालेऽपि प्रयुक्ताः प्रत्ययाः साधवो भवन्तीति । उदाहरति = विश्वदृश्वाऽस्य पुत्रो भवितेति='दृशू क्षणे' विश्वं दृष्टवानिति विश्वदश्वा, 'दशः क्वनिप्' ५।१।६६। इति क्वनिप, तत्र वन् अवशिष्यते. 'इस्युक्त कृता' ।३।१।४६। इति समासः, 'अनद्यतने श्वस्तनी' ।५।३।५। इति श्वस्तनीता-प्रत्यये च=भविता, अत्र विश्वदश्वा' इति भूतकाल-प्रत्ययो भनितेति भविष्यस्कालेन' प्रत्ययेनाभिसंबध्यमानः साधुर्भवति, तथा चेह विश्वदश्वाऽस्य पुत्रो भवितेति' भूतकालो भविष्यकालेनापि संबध्यमानो भविष्यत्कालः सम्पद्यते । तथा च कोऽर्थः ?

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476