Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४५६ )
वा स्यात् । जीवनाशं नश्यति । पुरुषवाहं वहति । कंतु रिति किम् । जीवेन नश्यति ॥ ६६ ॥
कर्तुं ० - । जीवनाशं नश्यतीति- जीवतीत्यच् जीवो नश्यतीति- जीवन् नश्यतीत्यर्थः । पुरुषत्राहं वहतीति पुरुषः प्र ेष्यो भूत्वा वहतीत्यर्थः पृणाति प्रषण - मित्यत्र पुरुषः क्रियाशब्दः प्रष्यपर्यायः । जीवेन नश्यतीति- इदमर्थंकथनम्, प्रयोगस्तु अस्मिन्नर्थे जीवनाशं नश्यतीत्यादि न भवति, जीवेननाशं घञन्तं नश्यतीति भवति ॥ ६६ ॥
ऊर्ध्वात्पू:- शुषः | ५|४|७०।
कर्तु रूर्ध्वात्परात्पूरः शुषश्च तस्यैव संबन्धे णम्वा स्यात् । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वशोषं शुष्यति ॥ ७० ॥
ऊर्ध्वात् ० -1, ऊर्ध्वपुरं पूर्यत इति - ऊर्ध्वः पूर्यंत इत्यर्थः ऊर्ध्वशोषं शुष्यतीति - ऊर्ध्वः शुष्यतीत्यर्थः ॥ ७० ॥
व्याप्याच्चेवात् । ५।४।७१।
व्याप्यात्कर्तुं श्वोपमानात्पराद् धातोस्तस्यैव सम्बन्धणम्वा स्यात् । सुवर्णनिधायं निहितः । काकनाशं नष्टः ॥ ७१ ॥
व्याप्या० - । सुवर्णनिधायं निहित इति - सुवर्णमिव निहित इत्यर्थः । काकनाशं नष्ट इति - काक इव नष्ट इत्यर्थः || ११||
उपात्किरो लवते |५|४८७२ ।
उपपूर्वात्किरते र्लवनार्थस्य धातोः सम्बन्धे णभ्वा स्यात् । उपस्काएं मद्रका लुनन्ति । लवन इति किम् ? उपकीर्य याति ॥ ७२ ॥
लवण इति वचनात् तस्यैवेति निवृत्तम् । न्यस्येतिवा. कामचारः । उपस्कारं मद्रका
इत ऊध्वं तस्यैवालुनन्तीति-विक्षिपन्तो
Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476