Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४५२ )
पूर्वाऽग्रेप्रथमे=। अनाभीक्ष्ण्यार्थं वचनम् । पूर्वप्रथमसाहचर्यात् अग्रे शब्दः कालवाची गाह्यः । पूर्व भोज यातीत्यादि पूर्वादयश्चात्र व्यापारान्तरापेक्षे प्राक्काल्ये गमनापेक्षे तु क्त वारुण्माविति नोक्तार्थता, ततश्चायमर्थोऽन्यभोक्तृभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्व भोजनं कृत्वा यातीत्यर्थः ॥४६॥
अन्यथैवंकथमित्यमः कृगोऽनर्थकात् ।।४।५०। एभ्यः परात्तुल्यकर्तृकार्थात् कृगोऽनर्थकाद्धातोः सम्बन्धे रणम्वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कार, इत्थङ्कारं भुङ्क्ते । पक्षे । अन्यथाकृत्वा । अनर्थकादिति किम् । अन्यथाकृत्वा शिरोभुङ्क्त॥५०॥
अन्यव०-। अत्र पक्षे क्त वैव भवति, न वर्तमानादिः । एवमुत्तरत्रापि । अन्यथा भुङ्क्ते इत्यस्य योऽर्थः स एव 'अन्यथा-कारं भुङ्क्त इत्यस्येति करोतेरन्यथादिभ्यः पृथगर्थाभातः आनर्थक्यम् ।।५०॥
यथातथादीर्घोत्तरे ।।४।५१।। आभ्यां तुल्यकर्तृ कार्थादनकात कृगो धातोः सम्बन्धे. हणम्या स्यात् ईय॑श्चेदुत्तरयति । कथं त्वं भोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह, यथाकारमहं भोक्ष्ये किं तवानेन ? ईर्योत्तर इति किम् । यथाकृत्वाऽहुं भोक्ष्ये तथा द्रक्ष्यसि ॥५१॥
यथाकारमहंमोक्ष्ये-यथाहं भोक्ष्ये तथाहं भोक्ष्ये किं ते मया इत्यर्थः ॥५१॥
शापे व्याप्यात् ।।४।५२।
Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476