Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 462
________________ ( ४५५ ) व्याप्यात्परात्पूरयतेर्धातोः सम्बन्धे णभ्वास्यात्, पूरयतेरूतेलु वच वा समुदायेन चेद् द्वष्टयत्ता गम्यते । गोष्पदप्रम् | गोष्पदपूरं वृष्टोमेघ ॥ ५७ ॥ e • समुदायेन चेद् वृष्टीयत्ता गम्यत इति । समुदायेन - प्रकृतिप्रत्ययोपपदसमुदायेन । अनेन णमि ऊकारस्य लोपे ङस्युक्तसमासे च - गोष्पद प्रम्, लोपस्य वैकल्पिकत्वात् तदभावे – गोष्पदपुरं वृष्टो मेघः इति - यावता गोष्पदादि पूर्यते तावद् वृष्ट इत्यर्थः । गोष्पदप्रमिति प्रातेर्धातोः 'आतो डो०' |५|१|७६ । इति डेन, गोऽपदपुरमित्यणा च क्रियाविशेषणत्वे सिध्यति, तत्र णम्विधानमव्ययत्वेन तरामाद्यर्थमनुस्वारश्रवणार्थं च तेन गोष्पद'तराम् ' गोष्पदप्रतमाम्, गोष्पदप्ररूपं गोष्पदप्रकल्पं देश्यं देशीयम्, गोष्पदपुरं - तरां तमां रूपं कल्पं देश्यं देशीयं' इत्यादि सिद्ध: भवति, अन्यथा हि गोष्पदप्रतरं गोष्पदपुरतरमित्याद्येव स्यात् ॥ ५७॥ चेलार्थात् क्नोपः | ५|४|५८ । G चेलार्थात् व्याप्यात्परात्क्नोपयतेस्तुल्यकर्तृ कार्थाद्व ष्टिमाने गये धातोः सम्बन्धे णम्वा स्यात् । चेलक्नोपं वृष्टो मेघः ॥५८॥ अयमप्यप्राक्काले विधिः । चेलक्नोपं दृष्टो मेघ इति यावता चेलं क्नूयते - आर्द्रीभवति तावद्वृष्ट इत्यर्थः ॥ ५८ ॥ 1 गात्रपुरुषात्स्नः | ५|४|५६ । आभ्यां व्याप्याभ्यां परात्तुल्यकर्तृ कार्थात्स्नातेवृष्टिमाने गम्ये धातोः सम्बन्धे णम्वा स्यात् । गात्रस्नायं वृष्टः । पुरुषस्नाय वृष्टः ॥५६॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476