SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ( ४५२ ) पूर्वाऽग्रेप्रथमे=। अनाभीक्ष्ण्यार्थं वचनम् । पूर्वप्रथमसाहचर्यात् अग्रे शब्दः कालवाची गाह्यः । पूर्व भोज यातीत्यादि पूर्वादयश्चात्र व्यापारान्तरापेक्षे प्राक्काल्ये गमनापेक्षे तु क्त वारुण्माविति नोक्तार्थता, ततश्चायमर्थोऽन्यभोक्तृभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्व भोजनं कृत्वा यातीत्यर्थः ॥४६॥ अन्यथैवंकथमित्यमः कृगोऽनर्थकात् ।।४।५०। एभ्यः परात्तुल्यकर्तृकार्थात् कृगोऽनर्थकाद्धातोः सम्बन्धे रणम्वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कार, इत्थङ्कारं भुङ्क्ते । पक्षे । अन्यथाकृत्वा । अनर्थकादिति किम् । अन्यथाकृत्वा शिरोभुङ्क्त॥५०॥ अन्यव०-। अत्र पक्षे क्त वैव भवति, न वर्तमानादिः । एवमुत्तरत्रापि । अन्यथा भुङ्क्ते इत्यस्य योऽर्थः स एव 'अन्यथा-कारं भुङ्क्त इत्यस्येति करोतेरन्यथादिभ्यः पृथगर्थाभातः आनर्थक्यम् ।।५०॥ यथातथादीर्घोत्तरे ।।४।५१।। आभ्यां तुल्यकर्तृ कार्थादनकात कृगो धातोः सम्बन्धे. हणम्या स्यात् ईय॑श्चेदुत्तरयति । कथं त्वं भोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह, यथाकारमहं भोक्ष्ये किं तवानेन ? ईर्योत्तर इति किम् । यथाकृत्वाऽहुं भोक्ष्ये तथा द्रक्ष्यसि ॥५१॥ यथाकारमहंमोक्ष्ये-यथाहं भोक्ष्ये तथाहं भोक्ष्ये किं ते मया इत्यर्थः ॥५१॥ शापे व्याप्यात् ।।४।५२।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy