________________
४५३ )
कर्मणः परात्तुल्यकर्तृकार्थात् कृमो धातोः सम्बन्धे ख्ण वा स्यात आक्रोशे गये । चोरङ्कारमानोशति । शाप इति किम् । चोरंकृत्वा हेतुभिः कथयति ॥५२॥ शापे०-। अनर्थकादिति निवृत्तम् । चोरङ्कारमाक्रोशतीति--करोतिरिहोच्चारणे, चोरशब्दमुच्चार्याक्रोशति, चोरोऽसीत्याक्रोशतीत्यर्थः । चोरं कृत्वा हेतुभिः कथयतीति--अत्र हि न तस्याक्रोशेऽभिप्रायः, किन्तु तस्य चोरत्वप्रकटने, तदर्थमेव-चोरत्वकारणप्रतिपादनमिति । चोरोऽसोत्याक्रोशवाक्ये चोरशब्दस्य यदुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्, न त्वसौ चोरः क्रियतेऽशक्यत्वात्, न च चोरोऽसीति शतकृत्वोऽपि ब्रुवता पुरुषस्य शक्यते चोरत्वमुत्पादयितुमिति ॥५२॥
स्वाद्वर्थादर्दीर्घात् ।।४।५३॥ स्वाद्वर्थाददीर्घान्ताद्वयाप्यात्परात्तुल्यकर्तृ कार्थात् कृगो धातोः सम्बन्धे ख्णम्वा स्यात् । स्वादुङ्कारं भुङ्क्ते । मिष्टङ्कारं भुङ्क्ते। पक्षे । स्वादुं कृत्वा । अदीर्घादिति किम् । स्वाद्वीं कृत्वा यवागू भुङ्क्ते ॥५३॥ स्वादुकारं यवागू भुङ्क्त, अस्वादु स्वादु कृत्वा-स्वादुकारं भुङ्क्त इत्यत्र तु डी-व्यो विकेल्पित्वात् दीर्घो न भवति ॥५३॥ विहग्भ्यः कात्स्न्ये णम् ॥५॥४॥५४॥ कात्य॑वतो व्याप्यात्परेभ्यस्तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानेभ्यो विदिभ्यो दृशेश्च धातोः सम्वन्धे णम्वा स्यात् । अतिथिवेदं भोजयति। कन्यादर्श वरयति । काग़ इति किम् । अतिथि विदित्वा भोजयति ॥५४॥ विदृग्भ्यः०-। 'विदिच् सत्तायाम्' 'विदक् ज्ञाने' 'विद्लुती लाभे'