SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ( ४५४ ) 'विदिप विचारणे' इति चत्वारो विदयः, तत्र सत्तार्थ-कोऽकर्मकः, व्याप्यात् परत्वं च सकर्मकस्यैव संभाव्यत इति तं वर्जयित्वा बहुवचनादन्ये त्रयोऽपि विदयो विद्ग्रहणेन गृह्यन्ते, अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इत्युपतिष्ठेत । अतिथिवेदं भोजयतीति यं यमतिथि जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः, विदित्रयग्रहणादर्थत्रयं ज्ञेयम् । कन्यादर्श वरयतीति-यां याम् अन्यां पश्यति तां तां सर्वा वरयतीत्यर्थः । अतिथि विदित्वा भोजयतीति-अत्र हि भोजनेतिथित्व- .. शानं हेतुः, न त्वतिथ्यन्वेषणे तात्पर्यम्, तथा च न कात्यमिति भावः । ॥ ५४॥ यावतो विन्दजीवः ।।४।५॥ कावतो व्याप्याद्यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्दतिजीविभ्यां धातोः सम्बन्धे णम्वा स्यात् । यावद्वेदं मक्ते। यावज्जीवमधीते ॥५५॥ यावतो०- विन्देति शनिर्देशाल्लाभार्थस्य ग्रहणम् । यावद्वदं भुङ्क्त इति यावल्लभते तावद्भक्त इत्यर्थः । थावज्जीवमधीत इति--यावज्जीवति तावदधीत इत्यर्थः। जीवेः पूर्वकालासंभवादपूर्वकाल एव विधिः ।। ५५॥ चर्मोदरात्पूरेः ।।४॥५६॥ आभ्यां व्याप्याभ्यां परात्त ल्यकर्त्तकार्थात्पूरयतेर्धातोः सम्बन्धे णम्बा स्यात् । चर्मपूरमास्ते । उदरपूरं शेते ॥५६॥ चर्मो०=चर्मपूरमास्ते इति-चर्म पूरयित्वाऽऽस्त इष्यर्थः । उदरपूर शेत इति- उदर पूरयित्वा शेत इत्यर्थः ॥५६॥ वृष्टिमाने ऊलुक चास्य वा ।।४।५७।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy