________________
. ( ४५१ )
प्राक्काले ।५।४।४७।
परकालेन धात्वर्थन तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे क्त्वा वा स्यात् । आसित्वा भुङ्क्ते । आस्यते भोक्तुम् । प्राक्काल इति किम् । भुज्यते पीयते वा ॥४७॥ प्राक्काले-"प्राक्काले" इत्युत्तरत्र यथासंभवमाभिधानतोऽनुवर्तनीयम् । भूज्यते, पीयते वेति-अत्र न उभयक्रिया क्रियत इति नास्ति प्राक्कालत्वम, । अनेन भूज्यते, अनेनैव पीयते इत्यर्थस दभावात् तुल्यकत कत्वमस्तीति न व्यङ्गविकलता अथ 'यदनेन भुज्यते ततोऽयं पचति' 'यदनेनाधीयते ततोऽयं शेते' इत्यत्र कथं क्त्वा न भवति ? उच्यते-यत्र यच्छब्देन सह तत शब्दः प्रयुज्यते तत्र ततःशब्देनैव प्राक्कालताऽभिधीयत इत्युक्तार्थत्वात् क्त्वा न भवति ॥४७।।
खणम् चाभीक्ष्ण्ये ।।४।४८॥ अभीक्ष्ण्ये परकालेन तुल्यकर्तृ के प्रावकालेऽर्थे वत्तेमानाद्धातोः सम्बन्धे ख्णम्, वत्वा च स्यात् । भोज भोजं याति । भुक्त्वा: भुक्त वा याति ॥४८॥ ख्णम् चा०-"वाधिकारेणैव पक्षे क्त वाप्रत्ययस्य सिद्धौ चकारेण तस्य विधाने वर्तमानादिप्रत्ययान्तर-निवृत्त्यर्थम् । खित्त्वं ख्णमः चौरंकारमाक्रोशति, स्वादुकारं भुङ्क्ते' इत्युत्तरार्थम् ।।४।।
पूर्वाग्रे प्रथमे ।।४।४६॥ एषूपपदेषु परकालेन तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे खणम् वा स्यात् । पूर्व भोज याति । पूर्व भुक्तवा याति। एवमग्रे भोजम् । अग्रे भुक्त्वा । प्रथम भोजम् । प्रथम भुक्तवा। पूर्व भुज्यते ततो याति ॥४६॥