SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ( ४५० ) अलं रुदितेनेति—'क्लीबे क्तः०' ।५।३।१२३। इति तो भावे, कृताद्य:' ।२।२।४७। इति तृतीया, रोदनेन किमित्यर्थः ॥४४॥ परावरे ।।४।४॥ परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदी गिरिः। . अप्राप्य नदी गिरिः। नद्यतिक्रमणे गिरिः, नद्यप्राप्त्या गिरिः ॥४५॥ पराऽबरे-अतिक्रम्य नदी गिरिरित्यस्यार्थमाह-नद्यतिक्रमणे गिरिः । अप्राप्य नदी गिरिरित्यस्यार्थमाह-नद्यप्राप्त्या गिरिः । नदीपर्वतयोः परापरत्वमात्र प्रतीयते, अस्ति प्राप्यत इति वा न द्वितीया क्रियेति तुल्यकर्तृकक्रियान्तराभावात् 'प्राक्काले' ५।४।४७। इति न सिध्यतीति वचनम् ॥४५॥ निमील्यादिमेङस्तुल्यकर्तृ के ।।४।४६। तुल्यो धात्वर्थान्तरेण कर्ता यस्य तदवृत्तिभ्यो निमील्यादिभ्यो मेङश्च धातोः सम्बधे क्त्वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । पक्ष अपमात याचते । तुल्यकर्तृक इति किम् । चैत्रस्याक्षिनिमीलने मैत्रोहति ॥४६॥ निमील्यादि०-"मील निमेषणे' निमेषणं संकोचः, अतोऽनेन क्त्वि 'ऊर्याद्य०' ।२।१।२। इति नेर्गतिसंज्ञायां 'गति०' ।३।१।४२॥ इति तत्पुरुषे क्त्वो यबादेशे च निमील्येति, यदैव हसति तदैव नयनयुगलं संमोलयती नास्तीह वाक्ये पूर्वकालतेति परेण न प्राप्नोतीति वचनम् । एवं मुखं व्यादाय स्वपितीत्यत्रापि बोध्यम् । अपमित्य याचते इति--पूर्वमसो याचते पश्चादपमयत इति प्राक्कालता नास्तीति मेडो ग्रहणम् ।।४६।। .
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy