________________
( ४४० )
त्मनेपदेऽनेन सप्तम्यां भुञ्जीत । कच्चित् जीवति मे मातेति - - मातुर्जीवनमभिलषितमिति कचिच्छब्देन प्रवेदयति । असप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः -- कामो मे भोक्ष्यत भवान् ||२६||
इच्छार्थे सप्तमीपञ्चम्यौ | ५|४|२७|
इच्छार्थे धातावुपपदे कामोतो गम्यायां सप्तमीपञ्चम्यौ स्याताम् । इच्छामि भुञ्जती, भुङ्क्तां वा भवान् ||२७||
इच्छार्थे०=।सर्वविभक्त्यपवादोऽयं योगः । अत्र सत्यपि सप्तमीनिमित्ते इच्छार्थे उपपदे कामोौ क्रियातिपतनस्यासामर्थ्येनासंभवात् क्रियातिपत्तिर्न भवति ॥ २७॥
विधिनिमन्त्रणामन्त्रणाऽधीष्टसम्प्रश्नप्रार्थने । ५४२८.
1
विध्यादिविशिष्ट षु कर्तृ कर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा । कंटं कुर्यात् । करोतु भवान्, प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । द्विस=ध्यमावश्यकं कुर्यात् । करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् । इहासीत । आस्ताम् । प्रेरणेव सत्कापूर्विका अधिष्टम् । व्रतं रक्षेत् । रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो व्याकरणमधीयीय । अध्यये । उत सिद्धान्तमधीयीय । अध्ययै । प्रार्थनं याञ्च । प्रार्थना मे तर्कमधीयी | अध्ययै ॥ २८॥
1
.
सर्वविभक्तयपवादो योगः । ' तत्साप्या ० ' | ३ | ३ |२१| इत्यादिना ये प्रत्यया विहितास्तेषां ये भावकर्मकर्तारोऽर्थास्तेषामयं विध्यादिरर्थो विशेषणमित्याह विध्याविशिष्टेषु कर्तृ कर्मभावेषु प्रत्ययार्थेष्विति ||२८||