Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 446
________________ ( ४३६ ) इच्छति । 'क्षेपेऽपि० ।५।४।१२। इत्यादावपि परत्वादयं विकल्प:-अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत्, अपि संयतः सन्नकल्प्यं सेवितुमिच्छति, धिग् गर्हामहे । भूतभविष्यतोरभावात् सत्यपि सप्तमीनिमित्ते सत्यपि च क्रियातिपतने क्रियातिपत्तिर्न भवति ॥२४॥ वय॑ति हेतुफले ।।४।२५॥ हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानात्सप्तमी वा स्यात् । यदिगुरु नुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वय॑तीति किम् । दक्षिणेन चेद्याति न शकटं पर्याभवति ॥२५॥ वय॑ति०-। हेतु:-कारणम् फलं-कार्यम् । यदि गुरूनुपासीत शास्त्रान्तं गच्छ दिति-उपपूर्वात् 'आसिक उपवेशने' इत्यतोऽनेन सप्तम्यामुपासीतेति, 'गम्लगती' अतोऽनेन सप्तम्यां गमिष०।४।२।१०६। इति मस्य छ, द्वित्वे, पूर्वस्य चे ज-गच्छेदिति । अस्य वैकल्पिकत्वात् पक्षे भविष्यति भविष्यन्तीत्याह-यदि गुरूनुपासिष्यते शास्त्रान्त गमिष्यतीति-गमोऽनुस्वारेत्त्वेऽपि 'गमोऽनात्मने' ।४।४।५१। इतीटि-गमिष्यति । अत्र गुरूपासनं हेतुः, शास्त्रान्तगमनं फलम् । अत्रापि सप्तमीनिमित्तमस्तीति भविष्यति क्रियातिपतले क्रियातिपत्ति:- दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् ॥२५॥ - कामोक्तावकच्चिति ।।४।२६। इच्छाप्रवेदनगम्ये सप्तमी स्यात्, न तु कच्चित्प्रयोगे। कामो मे भुजीत भवान् । अकच्चिदीति किम् । कच्चिज्जीवति मे माता ॥२६॥ कामोक्ता०-। सर्वविभक्त्यपवादोऽयम् । कामो मे भुञ्जीत भवानितिभवानिति-'भुजंप पालनाभ्यवहारयोः' 'भुनजोऽत्राणे०' ।३।३।३७। इत्या

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476