________________
( ४३३ )
किम् । कालो यदभोक्ष्यत भवान् ॥ ११॥
वात्प्राक् । कथं नाम संयत इत्यादि - संयतः सन् - माधुकरीं वृत्ति भजमानो मुनिजनः सन्, अनागाढे - प्रबलकारणाभावेऽपि तत्रभवान्पूज्यः, आधाय कृतमिति 'अव्ययं प्रवृद्धादिभिः' | ४ | ३ | ४ | इति समासः, भवन्तं मनसिकृत्य भवत्कृते कृतमाहारमिति यावत्, 'सेवृङ सेवने' इत्यस्य 'असेविष्यत' इति, 'संयतः सन्' इति कथनेन तस्य तादृशकार्यकरणस्य बुद्धिपूर्वकत्वं ध्वनयति, अत एव गर्हा, अबुद्धिकृते हि कर्मणि क्षमा कतु ं शक्यते, न बुद्धिकृते । 'कथमि० ' | ५|४| १३ | इति सप्तमीनिमित्तमत्र । कालो यदभोक्ष्यत भवानिति - 'सप्तमी यदि' | ५|४ | ३४ | इति सप्तमीनिमित्तस्योतात्परत्वेनास्याप्रवृत्त्या 'भूते' | ५|४|१०| इति क्रियातिपत्तिः ||११||
क्षेपेऽपिजात्वोर्वर्त्तमाना | ५|४|१२|
क्षेपेगम्येऽपिजात्वोरुपपदयोर्धातोर्वर्तमाना स्यात् । अपितत्र भवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, धिग्गह महे ॥१२॥
क्षेपे०
o भूत इति निवृत्तम् । क्षेपो गर्हा । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवानि - त्यादि - इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्तिर्नोदाह्रियते ।।१२।।
कथम सप्तमी च वा । ५|४|१३|
कथं शब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्त्तमाना व वा स्यात् । कथं नाम तत्रभवान् मांसं भक्षयेत्, भक्षयति का गर्हामहे अन्याय्यमेतत् । पक्षे । अबभक्षत् । अभक्षव्रत् । भक्षयांचकार । मक्षयिता । भक्षयिष्यति । अत्र सप्तमी निमित्तम