________________
( ४३४ )
स्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्रभवान्मांसमभक्षयिष्यत् । पक्षे यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । वथंनाम तत्रभवान्मांसमभक्षयिष्यत् ||१३||
कथमि० - । अद्यन्तयाम् - अबभक्षत्, ह्यस्तन्याम् - अभक्षयत् परोक्षायाम्भक्षयाञ्चकार, श्वस्तन्याम् - भक्षयिता, भविष्यन्त्याम् भक्षयिष्यति । क्रियातिपतने वा क्रियातिपत्तिरिति - 'वोतात् प्राक्' | ५ | ४ | ११ | इति वा क्रियातिपत्तिरित्यर्थः । नित्यमेव सेति -- 'सप्तम्यर्थे० ' | ५|४|६| इति नित्यमेव क्रियातिपत्तिरित्यर्थः ॥ १३ ॥
किंवृत्ते सप्तमीभविष्यन्त्यौ | ५|४ | १४ |
किंवृत्ते उपपदे क्षेपे गये सप्तमीभविष्यन्त्यौ स्याताम् । किं तत्रभवाननृतं ब्रूयाद् वक्ष्यति वा । को नाम कतरो नाम यस्मै तत्रभवाननृतं ब्रूयात्, वक्ष्यति वा ॥ १४॥
किवृत्ते 0 - 1 सर्वविभक्त्यपवाद: अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः किं तत्र भवाननृतमवक्ष्यत् पक्षे ब्रूयाद् वक्ष्यति च । भविष्यति तु नित्यम् -तत्र भवाननृत मवक्ष्यत ॥ १४ ॥
अश्रद्धामर्षेऽन्यत्रापि |५|४|१५|
अकवृत्ते किंवृत्ते चोपपदे अश्रद्धामर्षयोर्गम्ययोः सप्तमीभविष्य - न्त्यौ स्याताम् । न श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृहणीयात् । गृहीष्यति वा न श्रद्दधे किं तत्रभवानद समाददीत । आदास्यते वा । न मर्षयामि, न क्षमे तत्रभवान्नामादत्तं गृहणीयात्, ग्रहीष्यति वा ॥१५॥