________________
( ४३५ )
अश्रद्धा०-क्षेप इति निवृत्तम । अश्रद्धा असंभावना । अमर्षोऽक्षमा। अन्यवेति पदं व्याचष्टे-अकिंवृत्ते इति । सर्वविभक्त्यपवादः। वचनभेदाद् यथासंख्यं नास्ति । न श्रद्दधे न सम्भावयामि इति-अत्र 'सति' ।५।१६। इति वर्तमाना, श्रुत्पूर्वस्य दधातेः श्रद्दधे,सम्पूर्वस्य ण्यन्तस्य भवतेःसम्भावयामि, द्वौ अऽपि समानाथी,नत्रा योगादसम्भावना गम्यते। तत्रभवानित्यादि-अत्रानेन सप्तमीभविष्यन्त्यौ, धातुश्च ‘ग्रहीश् उपादाने' इति, अकिंवृत्ते प्रयोगः अथ किंवृत्ते प्रयोग माह-न-श्रद्दधे किं तत्र भवान् अदत्तेत्यादि अत्र दाधातुः । अमर्षे उदाहरणा-माह-न मर्षयामोत्यादिना ॥१५।।
किंकिलास्त्यर्थयोर्भविष्यन्ती ।।४।१६। किंकिलेऽत्स्यर्थे चोपपदेऽश्रद्धामर्षयोर्गम्ययोर्भविष्यन्ती स्यात् । न श्रद्धे, न मर्षयामि कि किल नाम तदभवान्परदारानुपकरिप्यते, न श्रद्दधे,मर्षयामि अस्ति नाम भवति नाम तत्रभवान्परदारानुपरिष्यते ॥१६॥ . किङ्किला०-। सप्तम्यपवादः। किङ्किल इति-किङ्किलेति शब्दसमुदाये उपपदे इत्यर्थः, एतेन किंकिलशब्दयोः प्रत्येकमुपपदत्वं निरस्यति, कस्मात् पुनस्तयोश्च प्रत्येकमुपपदत्वं न भवति ? केवलकिंशब्दस्याश्रद्धामर्षयोवृत्त्यसम्भवात् समुदायस्य च सम्भवात् । वचनभेदादश्रद्धामर्ष इति यथा संख्यं नास्ति । न अद्दधे इत्यादि-उपकरिष्यत इति 'गन्धना०' ।३।३।७६। इतिसूत्रण साहसे आत्मनेपदम्, अत्र सप्तमीनिमित्त नास्तीति क्रियातिपतने क्रियातिपत्तिर्न भवति ॥१६॥
जातुयद्यदायदौ सप्तमी ।।४।१७। ... एखूपपदेष्वश्रद्धामर्षयोः सप्तमी स्यात् । न श्रद्दधे, न क्षमे
जातु तत्रभवान् सुरां पिबेत् ! एवं यत्, यदा, यदि सुरां पिबेत् ॥१७॥