Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 442
________________ ( ४३५ ) अश्रद्धा०-क्षेप इति निवृत्तम । अश्रद्धा असंभावना । अमर्षोऽक्षमा। अन्यवेति पदं व्याचष्टे-अकिंवृत्ते इति । सर्वविभक्त्यपवादः। वचनभेदाद् यथासंख्यं नास्ति । न श्रद्दधे न सम्भावयामि इति-अत्र 'सति' ।५।१६। इति वर्तमाना, श्रुत्पूर्वस्य दधातेः श्रद्दधे,सम्पूर्वस्य ण्यन्तस्य भवतेःसम्भावयामि, द्वौ अऽपि समानाथी,नत्रा योगादसम्भावना गम्यते। तत्रभवानित्यादि-अत्रानेन सप्तमीभविष्यन्त्यौ, धातुश्च ‘ग्रहीश् उपादाने' इति, अकिंवृत्ते प्रयोगः अथ किंवृत्ते प्रयोग माह-न-श्रद्दधे किं तत्र भवान् अदत्तेत्यादि अत्र दाधातुः । अमर्षे उदाहरणा-माह-न मर्षयामोत्यादिना ॥१५।। किंकिलास्त्यर्थयोर्भविष्यन्ती ।।४।१६। किंकिलेऽत्स्यर्थे चोपपदेऽश्रद्धामर्षयोर्गम्ययोर्भविष्यन्ती स्यात् । न श्रद्धे, न मर्षयामि कि किल नाम तदभवान्परदारानुपकरिप्यते, न श्रद्दधे,मर्षयामि अस्ति नाम भवति नाम तत्रभवान्परदारानुपरिष्यते ॥१६॥ . किङ्किला०-। सप्तम्यपवादः। किङ्किल इति-किङ्किलेति शब्दसमुदाये उपपदे इत्यर्थः, एतेन किंकिलशब्दयोः प्रत्येकमुपपदत्वं निरस्यति, कस्मात् पुनस्तयोश्च प्रत्येकमुपपदत्वं न भवति ? केवलकिंशब्दस्याश्रद्धामर्षयोवृत्त्यसम्भवात् समुदायस्य च सम्भवात् । वचनभेदादश्रद्धामर्ष इति यथा संख्यं नास्ति । न अद्दधे इत्यादि-उपकरिष्यत इति 'गन्धना०' ।३।३।७६। इतिसूत्रण साहसे आत्मनेपदम्, अत्र सप्तमीनिमित्त नास्तीति क्रियातिपतने क्रियातिपत्तिर्न भवति ॥१६॥ जातुयद्यदायदौ सप्तमी ।।४।१७। ... एखूपपदेष्वश्रद्धामर्षयोः सप्तमी स्यात् । न श्रद्दधे, न क्षमे जातु तत्रभवान् सुरां पिबेत् ! एवं यत्, यदा, यदि सुरां पिबेत् ॥१७॥

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476