Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 430
________________ ( ४२३ ) न्याया० - - 1 स्वरान्तार्थ आरम्भः । निपूर्वस्येणो नीयतेऽनेनेति--न्यायः । एत्य वयन्ति वायन्ति वा तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वा -- अध्यायः । उद्य ुवन्ति तेन तस्मिन् वा उद्यावः । संहरन्ति तेन --संहारः । अवहरन्ति तेन तस्मिन् वा -- अवहारः । अध्रियते तत्रेत्याधारः । दीर्यन्ते एभिरितिदाराः । जीर्यतेऽनेनेति - जारः ॥ १.३४ || उदङ्को तो । ५/३/१३५०. उत्पूर्वादञ्चः पुन्नाम्नि करणाधारयोर्घञ् स्यात् नचेत्तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् । उदकोदञ्चनः ।। १३५।। उदङ्गको० न चेत् तोयविषयो धात्वर्थ इति जलं चेत् तेन भाजनेन नोदच्यत ==न व्यापार्यते इत्यर्थः । 'अञ्च गतौ च' चात् पूजायाम् तैलमुदच्यते उद्धियतेऽनेनास्मिन् वेतितैलोदङ्कः, चर्ममयं भाण्डमित्यर्थः । उदच्यतेऽनेन उदङ्कः, तैलस्योदङ्कः-तैलोदङ्कः 'कृति' | ३|१|७७ | इति षष्ठीसमासः, त्रि 'क्त' निट' : ० |४|१|१११ | इति चस्य कत्वम् ' म्नां०' ||३|३८| इति नस्य ङत्वं चात्रावसेयम् । उदकमुद च्यतेऽनेन पात्रणेति वाक्यम्, अत 'करणाधारे' | ५ | ३|१२६ । इत्यनडेव भवतीति भाव: । 'व्यञ्जना० ' |५|३|१३२ | इति सिद्ध तोये प्रतिषेधार्थं वचनम् । नह्य त्पूर्वस्याञ्चतेर्घत्रि घे वा रूपे विशेषोऽस्तीति घत्रि प्रतिषिद्ध े घे सति विशेषाभावेन प्रतिषेधस्य वैयर्थ्यं स्यादिति तत्सार्थक्याय घोऽपि न भवति ।। १३५ || आनायो जालम् | ५|३|१३६ । आङ्पूर्वान्नियः कारणाधारे पुन्नाम्नि जालार्थे घञ स्यात् । आनायो मत्स्यानाम् ॥१३६॥ आनायो जालम् — आनयन्ति तेनेति - आनायो मत्स्यानामिति ॥१३६॥ |

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476