Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 433
________________ ( ४२६ ) कृच्छाकृच्छार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यां यथासङ्ख्यं भूकृग्भ्यां परः खल स्यात् । दुराढय भवम् । स्वाढय भवम् । ईषदाढय भवं भवता। दुराढय करः। स्वाढयकरः । ईषदाढय करश्वे त्रस्त्वया । च्व्यर्थ इति किम् । दुराढच न भूयते ॥१४०॥ व्य० च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यामित्यत्र पराभ्यामिति शेषः, तेन 'च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यां पराभ्यां यथासंख्यं भूकृग्भ्या मिति अर्थो लभ्यते । दुःखेनानाढय नाढ्य न भयत इति=दुराढ्य भबं भवता। सुखेनानाढय नाढय न भूयते स्वाढयं भवम्, ईषदाढ्यंभवं भवता । दुःखेनानाढ्य आढ्यः क्रियते-दुराढ्यंकरश्चैत्रत्वया । सुखेनानाढ्यः आढ्यः । क्रियते स्वाढ्यंकरः, ईषदाढ्यंकरश्चैत्रस्त्वया । सर्वत्र 'खित्यनव्यया०'. ।३।२।१११। इति मागमः ॥१४०।। . शासूयुधिदृशिधृषिमृषातोऽनः ।।३।१४१॥ कृच्छकृछार्थदुःस्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरनः स्यात् । दुःशासनः । सुशासनः । ईषच्छासनः। एवं दुर्योधनः । सुयोधनः । ईषद्योधनः । दुर्दर्शनः । दुर्धर्षणः। दुर्मर्षणः । दुरुत्थानम् ॥१४१॥ शासू०=| खलोऽपवादोऽयं योगः । 'तत् साप्या०' ।३।३।२१। इति भावकर्मणोरयं विधि: । दुःखेन शिष्यते इति दुःशासनः । सुखेन शिष्यते= सुशासनः, ईषच्शासनः ।।१४१॥ * इति पञ्चमाध्यायस्य ततीयः पादः । * शास्त्रो ना शब्द काजे, सकल जगत नी साथ झझूमे । भक्तो जेना सदाये, गुरुवर कही, पाद अंगूठ चूमे ॥ . व्याख्याता विश्व ना ओ, जिवचन कही सद्य संसार तारो। __सूरि श्री रामचन्द्र ! प्रवरगणनिधे ! वन्दना ने स्वीकारो॥

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476