________________
( ४२६ )
कृच्छाकृच्छार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यां यथासङ्ख्यं भूकृग्भ्यां परः खल स्यात् । दुराढय भवम् । स्वाढय भवम् । ईषदाढय भवं भवता। दुराढय करः। स्वाढयकरः । ईषदाढय करश्वे त्रस्त्वया । च्व्यर्थ इति किम् । दुराढच न भूयते ॥१४०॥ व्य० च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यामित्यत्र पराभ्यामिति शेषः, तेन 'च्व्यर्थवृत्तिकर्तृ कर्मवाचिभ्यां पराभ्यां यथासंख्यं भूकृग्भ्या मिति अर्थो लभ्यते । दुःखेनानाढय नाढ्य न भयत इति=दुराढ्य भबं भवता। सुखेनानाढय नाढय न भूयते स्वाढयं भवम्, ईषदाढ्यंभवं भवता । दुःखेनानाढ्य आढ्यः क्रियते-दुराढ्यंकरश्चैत्रत्वया । सुखेनानाढ्यः आढ्यः । क्रियते स्वाढ्यंकरः, ईषदाढ्यंकरश्चैत्रस्त्वया । सर्वत्र 'खित्यनव्यया०'. ।३।२।१११। इति मागमः ॥१४०।। .
शासूयुधिदृशिधृषिमृषातोऽनः ।।३।१४१॥ कृच्छकृछार्थदुःस्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरनः स्यात् । दुःशासनः । सुशासनः । ईषच्छासनः। एवं दुर्योधनः । सुयोधनः । ईषद्योधनः । दुर्दर्शनः । दुर्धर्षणः। दुर्मर्षणः । दुरुत्थानम् ॥१४१॥ शासू०=| खलोऽपवादोऽयं योगः । 'तत् साप्या०' ।३।३।२१। इति भावकर्मणोरयं विधि: । दुःखेन शिष्यते इति दुःशासनः । सुखेन शिष्यते= सुशासनः, ईषच्शासनः ।।१४१॥
* इति पञ्चमाध्यायस्य ततीयः पादः । * शास्त्रो ना शब्द काजे, सकल जगत नी साथ झझूमे ।
भक्तो जेना सदाये, गुरुवर कही, पाद अंगूठ चूमे ॥ . व्याख्याता विश्व ना ओ, जिवचन कही सद्य संसार तारो।
__सूरि श्री रामचन्द्र ! प्रवरगणनिधे ! वन्दना ने स्वीकारो॥