________________
अथ पञ्चमाध्याये चतुर्थः पादः
-
-
सत्सामीले सद्वद्वा ।श४।१। समीपमेव सामीप्यं, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद्धातोर्वर्तमाना इव प्रत्यया वा स्युः। कदा चैत्र । आग तोसि । अयमागच्छामि। आगच्छन्तमेव मां विद्धि । पक्षे। अयमागमम् । एषोऽस्म्यागतः। कदा चैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विधि। पक्षे। एष गमिष्यामि । गन्तास्मि । गमिष्यन्तमेव मां विद्धि ॥१॥ सत्सामीप्ये०=| सामीप्यमिति-- अन्त 'भेषजादिभ्यष्ट्यण' ।७।२।१६४। इति स्वार्थे ट्यण् । 'वर्तमाना इव प्रत्यया वा' स्युरिति-कोऽर्थः ? उच्यते-'सति' ।५।२।१६। इति सूत्रादारभ्यापादपरिसमाप्तेविहिताः' स्युरित्यर्थः । अयमागममिति–'गम्लु गौ' अतो वर्तमान-समीपे भूतेऽद्यतन्या अम्प्रत्यथः, 'लदिद्० ३।४।६४। इत्यङ च । एषोऽस्म्यागत इत्यत्र गत्यर्थत्वात् भते कर्तरि क्तः, धातोरनिट्त्वाच्च नेट, प्रत्ययस्य कित्त्वाच्च मलोपः । कदा चैत्र ! गमिष्यसीति-भविष्यन्त्याः स्यसिप्रत्ययः, 'गमोऽनात्मने' ।४।४।५१। इति चेट ॥१॥
भूतवच्चाशंस्ये वा ।।४।२। अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः, तदर्थाद्धातोभूतवत्सद्वच्च प्रत्यया वा स्युः । उपाध्यायश्चेदागमत् ।