________________
( ४.८ )
एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागच्छति। एते तर्कमधीमहे। पक्षे । उपाध्यायश्चेदागमिष्यत्यागन्ता बा । एते तर्कमध्येष्यामहे । अध्येतास्महे वा। आशंस्य इति किम् । उपाध्याय आगमिष्यति । तर्कमध्येष्यते मैत्रः ॥२॥
भूतवच्चा०-। आशंस्यस्य भविष्यत्त्वादयमतिदेशः । गम्धातोरद्य-.. तन्याः प्रथमत्रिकैकवचनेऽङि–आगमत् । 'इंक् अध्ययने' नित्यमधिपूर्वः, अतोऽद्यतन्यास्तृतीयत्रिकबहुवचने महिप्रत्यये सिचि 'वाऽद्यतनी.' ।९।४।२८। इति गीङादेशे ङित्त्वावणाभावे च-अध्यगीष्महि ॥२॥
क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ ।।४।३। क्षिप्राशंसार्थयोरुपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यं भविष्यन्तीसप्तम्यौ स्याताम् । उपाध्यायाचेदागच्छति। आगर त् । आगमिष्यति । आगन्ता। क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायचेदागच्छति । आगमत् । आगमिष्यति । आगन्ता वा आशंसे संभावये युक्तो ऽधीयीय ॥३॥
क्षिप्रा०-। यथासंख्यमिति-क्षिप्रार्थे भविष्यन्ती, आशंसावाचिनि चोपपदे सप्तमीत्यर्थः। 'भूतवच्चा०' ।।४।२। इत्यस्मिन् प्राप्तेऽस्यारम्भः । क्षिप्रार्थे उपपदे पूर्वसूत्रवारणाय क्षिप्रार्थे नेति योगे वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम । तेन उपाध्यायश्चेच्छ्वः शीघ्रमागमिष्यति, एते श्वः क्षिप्रमध्येष्यामहे' इत्यत्र भवष्यन्ती सिद्धा। उपाध्यायश्चेदागच्छति, आगमत् इति-पूर्वेण वर्तमाना अद्यतनी च । आगमिष्यति, आगन्तेति-पूर्वस्य वैकल्पिकत्वात् पक्षे भबिष्यन्ती श्वस्तनी च । क्षिप्रमाशु एते सिद्धान्तमध्येप्यामहे इति-- अत्र क्षिप्रार्थे उपपदेऽनेन भविष्यन्ती । आशंसे संभावये युक्तोऽधीयीयेतिअत्राशंसायोगेऽनेन सप्तम्यामधीयीयेति । क्षिप्रवाचिनि आशंसावाचिनि चोपदे सप्तम्येव भवति शब्दतः परत्वात् =आशंसे क्षिप्रमधीयीय ।।३।।