________________
( ४२६ )
सम्भावने सिद्धवत् ।।४।४। हेतो शक्तिश्रद्धानं सम्भावनं, तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्यया । समये चेत्प्रयत्नोऽभूदुदभूवन्विभूतयः ॥४॥ सम्भावने०=| सम्भावनं व्याचष्टे हेतोः शक्ति श्रद्धानमिति=कारणे कार्योत्पादशक्तेविश्वास इति भावः । समये चेत् प्रयत्नोऽभूद् उदभूवन् विभूतय इति=यद्यषि प्रयत्नस्याप्यनिष्पन्नत्वमेवेति कारणसत्ताप्यनिश्चिता, तथापि कारणस्यापि कारणे सति कारणस्यापि सम्पन्नत्वं सम्भाव्यते, प्रयत्नकारणभूताया इच्छायाः सत्त्वेन प्रयत्नस्यापि सम्पनत्वेन सम्भावना । तथा च विभत्युइवे कारणभूतस्य प्रयत्नस्य विभूत्युदावने विश्वास इह प्रयोक्त विवक्षित इति ॥४॥
नानद्यतनः प्रबन्धासत्त्योः ।।४।। धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात्, दास्यति वा । येयं पौर्णमास्यतिकान्ता एतस्यां जिनमह प्रावत्तिष्ट । येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रतिष्यते ॥५॥
नाऽनद्यतनः=। प्रवन्धः सातत्यम। आसत्तिः सामीप्यम्, तच्च कालतः, . • सजातीयेन कालेनाव्यवहितकालतेति यावत् । भूतानद्यतने भविष्यदन
द्यतने श्नस्तनी विहिता तयोः प्रतिबंधोऽनेन सूत्रेण । यावज्जीव भशमन्नमदात्, दास्यति वेति=दाधातोरद्यतन्याः सिचि 'पिबेति'०।४।३।६६। इति तस्य लोपे अदात्' इति, अनान्नदानस्य जीवनान्तर्गतवादिकालसमकालाव्यकहितत्वं गम्यम, न तु सर्वकार्यपरित्यागपूर्वकमन्नदानमानपरत्वमसम्भवात्, एवमन्यत्रापि योज्यम्, एतौ प्रबन्धे उदाहरो ज्ञेयो, पूर्वं भतानद्यतने परं भविष्यदनद्यतने । आसत्तावदाहरति=येयमित्यादि, 'वृतङ वर्तने' प्रपूदितोऽद्यतनीत सिधि इटिगुणेऽटि पत्वं च-प्रावत्तिष्ट ।।५।।