________________
( ४३० )
एष्यत्यवधौ देशस्यार्वाग्भागे ।।४।६। देशस्य योऽवधिस्तद्वाचिन्पुपपदे देशस्यैवाग्भिागे य एष्यन्नर्थस्तद्वत्तेधातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्य आ शत्रजयात् तस्य यदवरं वलन्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् । यो ऽयमध्वा अतिक्रान्त आ शत्रुञ्ज- .. यात्तस्य यदरं वलभ्यास्तत्र युक्ताद् द्विरध्यमहि । अवधाविति किम् । योयमध्वा निरवधिको गन्तव्य स्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अर्वाग्भाग इति किम् योयमध्वा गन्तव्य आ शत्रु जयात्तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ।
एष्यत्यवधी०=। अप्रबन्धार्थमनासत्त्यर्थ च वचनम् । यद्यय्यनद्यतन इति प्रकृतं तथापीहष्यतीतिवचनात् श्वस्तन्या एव निषेधः । योऽयमध्वा गन्तव्य इत्यादि शत्रजयावधिकमार्गस्य यदवरं वलभ्याः सकाशात् तत्रेत्याद्यर्थः, 'भुजंप पालनाभ्यवहारयोः' भूनजोऽत्राणे' ।३।३।३७॥ इत्यात्मनेपदे भविष्यन्त्याः ष्यामहेप्रत्यये जस्य 'चजः कगम्' ।२।११८६। इति गत्वे 'अघोषे०' ।१।३।५०। इति गस्य कत्वे 'नाम्यन्तस्था०' ।२।३।१५। इति सस्य षत्वे च= भोक्ष्यामहे इति, द्विरिति सुच्प्रत्ययान्तम्, द्वौ वारावित्यर्थः । गन्तव्य इत्यनेन भविष्यत्कालतां दर्शयति, तस्य यदवरमित्यनेनाध्वनो विभागम्, द्विरित्यनेन क्रियाप्रबन्धाभावम् ॥६।।..
कालस्यानहोरात्राणाम् ।।४।७। कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तद्वत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । न चेत्सोऽर्वारभागोऽहोरात्राणाम् । योऽयमागामी संवत्सरः तस्य यदवरमानहायण्यास्तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति