________________
( ४३१ )
किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरास्तग युक्ताद् द्विरध्योतास्महे ॥७॥ कालस्या =| आग्रहायष्या इति=अग्रं हायनस्येति 'द्वित्रिचतु०' ।३।१।५६। इति समासः, 'पूर्वपद०' ।२।३।६४। इति णत्वम् अग्रहायणमेब 'प्रज्ञादित्वादणि ह्यां= आग्रहायणी, मार्गशीर्षादारभ्य संवत्सरप्रवृत्तेः, मृगशीर्षपूणिमेत्यर्थः । योगविभाग उत्तरार्थः ॥७॥
परे वा ।।४।।
वालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परेभागे ऽनहोरात्रसम्बन्धिनि य एष्यन्नर्थस्तद्वत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न स्यात् । आगामिनो वत्सरस्याग्रहायण्याः परस्ताद् द्विः सूत्रमध्येध्यामहे । अध्येतास्महे वा ॥८॥ परेवा०-। देशस्याग्भिागे' इति परद्वयवर्ज पूर्वसूत्रद्वयमनुवर्तते, तथा च योऽर्थ उपपन्नस्तमाह-वालस्य योऽवधिन्त्यिादिना। प्रबन्धासत्तिविव
क्षायामपि परत्वादयमेव विकल्पः-आगामिनः संवत्सरस्याग्रहायण्याः - परस्तादविच्छिन्नं सूत्रमध्येष्यामहे, अध्येतास्महेवा ॥८॥
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः।।४।६। सप्तम्या अर्थो निमित्तिं हेतुफलकथनादिसामग्री, कुतश्चिद्वैगुण्याक्रियायाऽनभिनिवृत्तौ क्रियातिपत्तौ सत्यामेष्यदर्थाद्धातोः, सप्तम्यथे क्रियातिपत्तिः स्यात् । दक्षिणेन चेदयास्यन्न शकटं पर्याभविव्यत् ॥९॥ सप्तम्यर्थे०-। 'सप्तम्ययर्थे' इति व्याख्याति-सप्तम्या अर्थो निमित्त हेतुफलकथनादिसामग्रीति-सप्तमीपदेन न स्यादिर्लाह्या, अपि तु 'यात्,