________________
( ४२५ )
,
1
1
1. सुखार्थत्वं संभवति, नवा सुशब्दस्य दुःखार्थत्वम्, अथ च द्वावुक्तौ शब्दास्त्रयः, तत्र कस्य शब्दस्य कि विषयत्वमिति यद्यपि न्यायेन निर्णेतुमशक्यम्, तथापि स्वयोग्यताबलादेव कस्य किमर्थविषयकत्वमिति निश्चेयभित्याहकृच्छ्रवृत्तेदुरोऽर्थादकृच्छवृत्तिभ्यां च स्वीषयामिति-अर्थादित्युभयान्त्रयि, अर्थात् —तदर्थाभिधानयोग्यताया इत्यर्थः तथा च यतो दुर: कृच्छार्थाभिधानयोग्यताऽतस्तदर्थविषयत्वं तस्य, सुशब्दस्य सुखार्थाभिधानयोग्यतेति तदर्थपरत्वं तस्य ईषतश्च यद्यपि नोभयमध्ये कस्याप्यर्थस्याभिधाने योग्यता पूर्वा, तथापि दुःखमल्पमपि बहु विज्ञायते, सुखं ववपि स्वरूपं विज्ञायत इति लौकिकानुभवबलेन तस्य सुखविषयत्वं कल्पयितुं शक्यत इति तस्याप्यकृच्छार्थ परत्वमेव निर्णेयमिति भावः । ' तत् साप्या०' | ३ | ३|२१| इत्यनेन खलस्य भावकर्मणोविधिः । दुःशयमि त्यादि, – दुःखेन शय्यते, दुःखेन क्रियते इत्यादि वाक्यं विज्ञेयम् । दुःशयम्, सुशयम्, ईषत्शयमित्यत्र भावे खल, धातोरकर्मकत्वात् अन्यत्र कर्मणि धातोः सकर्म कत्वात् ईषल्लभ्यं घऩमिति - अल्पं लभ्यमित्यर्थ, अत्र शकित कि'० | ५|२८| इत्यनेन पवर्गान्तलक्षणो यः कृत्यादीनामपवाद: । खकार उत्तरत्र मागमार्थः, लकारः ‘खलर्थाश्च' इत्यत्र विशेषणार्थः । इह स्त्रीप्रत्ययात् प्रभृति असरूपविधेरभावात् स्पर्धे ‘अल: स्त्रीखलनाः स्त्रियास्तु खलनी' परत्वात् भवतः । तत्र 'चयः, जयः, लवः, इत्यादावलोऽवकाश:, 'कृतिः, हृति' इत्यादी स्त्रीप्रत्ययस्य, 'चितिः स्तुतिः, इत्यादी तूभयं प्राप्नोति, अलोऽ विशेषेणाभिधानात्तव परत्वात् स्त्रीप्रत्ययो भवति । तथा 'दुर्भेद:, सुभेद: इत्यादी खलोsवकाशः, अलस्तु पूर्व एव दुश्चयम्, सुचयम्, दुर्लवम्' इत्यादी तूभयप्राप्तौ परत्वात् खल् भवति । तथा इध्मव्रश्चनः, पलाश - च्छेदनः इत्यादावनस्यावकाशः, अलस्तु पूर्वक एव, 'पलाशशातनो विलवनः' • इत्यादी तूभयप्राप्तौ परत्वादनो भवति । एवं 'हृतिः, कृतिः' इत्यादी स्त्रीप्रत्ययस्यावकाश: 'दुर्भदः, सुभेद:' इत्यादी खलः, 'दुर्भेदा, सुभेदा' इत्यादावुभयप्राप्तौ परत्वात् खल् भवति । तथा 'इध्मव्रश्चनः पलाशछेदनः ' इत्यादावनस्यावकाश, कृतिरित्यादौ स्त्रीप्रत्यस्य, 'शक्तुधानी, तिलपिडनी' इत्यादी तूभयप्राप्तौ परत्वादनडेव भवति ।
च्व्यर्थे कर्माप्याद् भूकृगः | ५ | ३|१४० ।