Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 435
________________ ( ४.८ ) एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागच्छति। एते तर्कमधीमहे। पक्षे । उपाध्यायश्चेदागमिष्यत्यागन्ता बा । एते तर्कमध्येष्यामहे । अध्येतास्महे वा। आशंस्य इति किम् । उपाध्याय आगमिष्यति । तर्कमध्येष्यते मैत्रः ॥२॥ भूतवच्चा०-। आशंस्यस्य भविष्यत्त्वादयमतिदेशः । गम्धातोरद्य-.. तन्याः प्रथमत्रिकैकवचनेऽङि–आगमत् । 'इंक् अध्ययने' नित्यमधिपूर्वः, अतोऽद्यतन्यास्तृतीयत्रिकबहुवचने महिप्रत्यये सिचि 'वाऽद्यतनी.' ।९।४।२८। इति गीङादेशे ङित्त्वावणाभावे च-अध्यगीष्महि ॥२॥ क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ ।।४।३। क्षिप्राशंसार्थयोरुपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यं भविष्यन्तीसप्तम्यौ स्याताम् । उपाध्यायाचेदागच्छति। आगर त् । आगमिष्यति । आगन्ता। क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायचेदागच्छति । आगमत् । आगमिष्यति । आगन्ता वा आशंसे संभावये युक्तो ऽधीयीय ॥३॥ क्षिप्रा०-। यथासंख्यमिति-क्षिप्रार्थे भविष्यन्ती, आशंसावाचिनि चोपपदे सप्तमीत्यर्थः। 'भूतवच्चा०' ।।४।२। इत्यस्मिन् प्राप्तेऽस्यारम्भः । क्षिप्रार्थे उपपदे पूर्वसूत्रवारणाय क्षिप्रार्थे नेति योगे वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम । तेन उपाध्यायश्चेच्छ्वः शीघ्रमागमिष्यति, एते श्वः क्षिप्रमध्येष्यामहे' इत्यत्र भवष्यन्ती सिद्धा। उपाध्यायश्चेदागच्छति, आगमत् इति-पूर्वेण वर्तमाना अद्यतनी च । आगमिष्यति, आगन्तेति-पूर्वस्य वैकल्पिकत्वात् पक्षे भबिष्यन्ती श्वस्तनी च । क्षिप्रमाशु एते सिद्धान्तमध्येप्यामहे इति-- अत्र क्षिप्रार्थे उपपदेऽनेन भविष्यन्ती । आशंसे संभावये युक्तोऽधीयीयेतिअत्राशंसायोगेऽनेन सप्तम्यामधीयीयेति । क्षिप्रवाचिनि आशंसावाचिनि चोपदे सप्तम्येव भवति शब्दतः परत्वात् =आशंसे क्षिप्रमधीयीय ।।३।।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476