Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 426
________________ .. ( ४१६ ) टि 'उदः स्था०' ।१।३।४४। इति सलोपे-उत्थानमिति, अस्तीह कर्तु : शरीरसुखए, नतु कर्मणा संस्पृष्टस्य तिहि ? आदानेन तलिकाख्येन। तूलिकोत्थितो हि जनः प्रातः स्वशरीरसुखमनुमवति, स्वाप-समये च तदनुभवाभावादिति तलिक यां शयनमिति न प्रत्युदामृतम् । शिष्येण गुरोः स्नापनंसुवमिति ष्णांक शोचे' असो णिगि अति ही०।४।२।२१।इति प्वागमः,अन स्नापयतेन गुरुः कर्ता, किं तहि ? कर्म । पुत्रस्य परिष्वजनं सुखमिति= "ध्वजित् सङ्गे' परिपूर्व', 'स्वञश्च' ।२।३॥४५॥ इति सस्य षत्वम् । अत्र शरीरस्य सुखं तदा विज्ञायेत, यदि पुत्र स्पृष्टे तद् दृश्येत, अस्पृष्टे न दृश्येत, न च तथा भवतीति न शरीरस्य सुखम् ततः च पुत्रे स्पृष्टे रोमहर्षादिदर्शनादस्पृष्टे चादर्शनात् तत् शरीर सुखमेवेति वाच्यम्, तथा सति पत्रमात्रस्पर्शनात् सुखं दृश्येत, नहि परपुत्रस्पर्श तद् दृश्यते, तथाहि-स्वजन्यावविशिष्टपुत्रस्पर्शज्ञानेन सुखमिति न शरीरस्य तत्, नहि शरीरसुखोत्पादक वस्तु विज्ञातमेव सुखमुत्पादयति ना-विज्ञातम्,अजानन्नपि हिस्वत्वादिना पय आदिवस्तुनि नत्यानात् सुखमनुभवति शरीरं चास्योपचीयते, न तथा पुत्रस्पर्गेन, रोमहर्षादि तु ज्ञान-जन्यमेव, न तत्र स्पर्शो हेतुः, अस्पृष्टऽपि कस्मिञ्चिद्वस्तुनि दृष्टमात्रे स्मृतमात्रे वा तद्धर्षदर्शनात्, तथा च तत्र मानस्येव प्रीतिरिति । अमेन सूत्रेण प्रत्ययाभावात् ‘ङस्युक्त०' ।३।१।४८। इति सूत्रेण समासस्य सर्वत्र प्रत्युदाहरणेऽभाव इति वेद्यम् । पूर्वेण सिद्ध किमर्थं सूत्रमित्याह-नित्यसमासार्थमिति । अयमाशयः-पूर्वेण प्रत्यये कर्मणो डस्यक्तत्वाभावात् समासो न स्याद् अनेन प्रत्यये तु कर्मणो ङस्युक्तत्वात् ‘ङस्युक्त० ।३।१।४६। इति स्यादितिं ॥१२५॥ रम्यादिभ्यः कर्तरि ।।३।२६। एभ्य कर्तरि अनट् स्यात् । रमणी । कमनी ॥१२६॥ रम्यादिभ्यः०-। 'रमि क्रीडायाम्' अन्तर्भावितण्यर्थो सकर्मकः, रमते इ-त्यनटि टित्त्वात् स्त्रियां छीप्रत्यये रमणी, रमयति सि. मित्यर्थः । बहुवचनं प्रयोगानुसरणार्थम् ।।१२६।।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476