________________
.. ( ४१६ )
टि 'उदः स्था०' ।१।३।४४। इति सलोपे-उत्थानमिति, अस्तीह कर्तु : शरीरसुखए, नतु कर्मणा संस्पृष्टस्य तिहि ? आदानेन तलिकाख्येन। तूलिकोत्थितो हि जनः प्रातः स्वशरीरसुखमनुमवति, स्वाप-समये च तदनुभवाभावादिति तलिक यां शयनमिति न प्रत्युदामृतम् । शिष्येण गुरोः स्नापनंसुवमिति ष्णांक शोचे' असो णिगि अति ही०।४।२।२१।इति प्वागमः,अन स्नापयतेन गुरुः कर्ता, किं तहि ? कर्म । पुत्रस्य परिष्वजनं सुखमिति= "ध्वजित् सङ्गे' परिपूर्व', 'स्वञश्च' ।२।३॥४५॥ इति सस्य षत्वम् । अत्र शरीरस्य सुखं तदा विज्ञायेत, यदि पुत्र स्पृष्टे तद् दृश्येत, अस्पृष्टे न दृश्येत, न च तथा भवतीति न शरीरस्य सुखम् ततः च पुत्रे स्पृष्टे रोमहर्षादिदर्शनादस्पृष्टे चादर्शनात् तत् शरीर सुखमेवेति वाच्यम्, तथा सति पत्रमात्रस्पर्शनात् सुखं दृश्येत, नहि परपुत्रस्पर्श तद् दृश्यते, तथाहि-स्वजन्यावविशिष्टपुत्रस्पर्शज्ञानेन सुखमिति न शरीरस्य तत्, नहि शरीरसुखोत्पादक वस्तु विज्ञातमेव सुखमुत्पादयति ना-विज्ञातम्,अजानन्नपि हिस्वत्वादिना पय आदिवस्तुनि नत्यानात् सुखमनुभवति शरीरं चास्योपचीयते, न तथा पुत्रस्पर्गेन, रोमहर्षादि तु ज्ञान-जन्यमेव, न तत्र स्पर्शो हेतुः, अस्पृष्टऽपि कस्मिञ्चिद्वस्तुनि दृष्टमात्रे स्मृतमात्रे वा तद्धर्षदर्शनात्, तथा च तत्र मानस्येव प्रीतिरिति । अमेन सूत्रेण प्रत्ययाभावात् ‘ङस्युक्त०' ।३।१।४८। इति सूत्रेण समासस्य सर्वत्र प्रत्युदाहरणेऽभाव इति वेद्यम् । पूर्वेण सिद्ध किमर्थं सूत्रमित्याह-नित्यसमासार्थमिति । अयमाशयः-पूर्वेण प्रत्यये कर्मणो डस्यक्तत्वाभावात् समासो न स्याद् अनेन प्रत्यये तु कर्मणो ङस्युक्तत्वात् ‘ङस्युक्त० ।३।१।४६। इति स्यादितिं ॥१२५॥
रम्यादिभ्यः कर्तरि ।।३।२६।
एभ्य कर्तरि अनट् स्यात् । रमणी । कमनी ॥१२६॥
रम्यादिभ्यः०-। 'रमि क्रीडायाम्' अन्तर्भावितण्यर्थो सकर्मकः, रमते इ-त्यनटि टित्त्वात् स्त्रियां छीप्रत्यये रमणी, रमयति सि. मित्यर्थः । बहुवचनं प्रयोगानुसरणार्थम् ।।१२६।।