________________
( ४१८ )
भावार्थकत्वेऽपि सामान्य विहितत्वेऽपि च पुस्त्वम् नुशासनवशात्, तथापि सामान्यतो भावमात्रे विधाने घनादीनां बाधकत्वमस्य न स्यादिति तदर्थ नपुंसकत्वविशिष्टे भावे विधानमावश्यकम् । किञ्च तत् स.प्या०।३।३।२१ इति सूत्रेणाकर्मकेभ्य एव क्तस्य भावे विधानमनेन च सकर्मकेभ्योऽपीति 'गतं तिरश्चीनमनूरूसारथेः' इत्यादिप्रयोगाः सकर्मकेभ्योऽपि विहिताः । तथा चावश्यकमेवास्य पृथग्विधानमिति । 'हस हसने अतोऽनेन क्त स्याद्य० ।४।४।३२। इतीटि-हसितं तवेति-अत्र 'कर्तरि' ।२।२।८६। इति षष्ठी। हास इति-अत्र क्लीबत्वाभावादस्याप्रवृत्त्या: भावाकों: ।५।३।१८। इति घनि-हासः ॥१२३।।
अनट् ।।३।१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् । गमनम् ॥१२४॥ अनट्०-। योग बिभाग उत्तरत्रानड्मात्रस्यानुवृत्त्यर्थः । ढकार उत्तरत्र ड्यर्थः ॥१२४॥
यत्कर्मस्पर्शात्करृङ्गसुखं ततः ॥५॥३॥२५॥ येन कर्मणासंस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात्ततः पराद्धातोः क्लीबे भावे ऽनट् स्यात् । पयपानं सुखं । कर्मेति किम् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कति किम् । शिष्येण गुरोः स्नापनं सुखम् । अङ्गति किम् । पुत्रस्य परिष्वजनं सुखम् । सुखमिति किम् । कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥१२५॥
यत्कर्मस्पर्शा०-। पयः पानं सुखमिति–पयसः पाने शरीरोपः चयेन पान-. कालेऽमि तस्य जिह्वया स्पर्शात् शरीरे हषों जायत एवेति शरीरसुखोत्पत्तिनियता । तूलिकाया उत्थानं सुखमिति--उत्पूर्वात् स्थाधातोः पूर्वेणान