SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ( ४१७ ) नाम्निः पुंसि च ।।३।१२१॥ धातोः परो भावाकोः स्त्रियां संज्ञायां णकः स्यात् यथालक्ष्यं पुसि च । प्रच्छरिका। शालभजिका। अरोचकः ॥१२१॥ नाम्नि०-। प्रच्छर्दनं प्रच्छद्य तेऽनयेति वा-प्रच्छदिका--रोगसंज्ञेषा । शालो वृक्षविशेषः, शाला भज्यन्ते यस्यां सा--शालभञ्जिका-एवं नामा क्रीडेत्यर्थः । सि चेत्यस्योदाहरणमाह-अरोचक इति–अरोचनं न रोत्र तेऽस्मिन्निति वा--अरोचकः ।।१२१॥ भावे ।।३।१२२॥ धात्वर्थनिर्देशे धातोर्णकः स्यात् । शायिका ॥१२२॥ . भावे०-: 'शीक् स्वप्ने' इत्यस्य वृद्धावायादेशे आपि 'अस्या०'।२।४।१११ इत्यकारस्यत्वे च शायिका ॥१२२॥ क्लीबे क्तः ।।३।१२३॥ नपुंसके भावे धातो क्तः स्यात् । हसितं तव । क्लीबे इति किम् । हासः ॥१२३॥ प्रलो-- पत्राद्यपवादः। स्त्रियां भावाकोरिति च निवृत्तम् । ननु 'तत् साप्या०' ।३।३।२१। इति सूत्रेणैव लिङ्गत्रयसाधारण्येन भावकर्मणोः क्तस्य विधानाद्भावे च नपुंसकत्वस्य स्वतः सिद्धत्वेन सामान्यसूत्रेणेव सिद्ध सूत्रमिदं व्यर्थमिति चेत् ? अनोच्यते-'भूते' इत्यधिकृत्य 'क्तक्तवतू' ।५।१।१७४। इत्यनेन क्तप्रत्ययविधानात् तस्यैवार्थे 'तत् साप्या०' ।३।३।२१॥ इत्यने भावकर्मणी कथिते, अनेन तु कालसामान्ये नपुसके भावे को विधीयते । यद्यपि 'क्लीबे' इत्यस्याभावेऽपि धात्वर्थरूपे भावे कस्यापिलिङ्गस्यासत्वेन सामान्ये नपुंसकमिति नियमान्नपुसकत्वं प्राप्तम्, घनाद्यन्तानां
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy