Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४१७ )
नाम्निः पुंसि च ।।३।१२१॥ धातोः परो भावाकोः स्त्रियां संज्ञायां णकः स्यात् यथालक्ष्यं पुसि च । प्रच्छरिका। शालभजिका। अरोचकः ॥१२१॥ नाम्नि०-। प्रच्छर्दनं प्रच्छद्य तेऽनयेति वा-प्रच्छदिका--रोगसंज्ञेषा । शालो वृक्षविशेषः, शाला भज्यन्ते यस्यां सा--शालभञ्जिका-एवं नामा क्रीडेत्यर्थः । सि चेत्यस्योदाहरणमाह-अरोचक इति–अरोचनं न रोत्र तेऽस्मिन्निति वा--अरोचकः ।।१२१॥
भावे ।।३।१२२॥ धात्वर्थनिर्देशे धातोर्णकः स्यात् । शायिका ॥१२२॥ . भावे०-: 'शीक् स्वप्ने' इत्यस्य वृद्धावायादेशे आपि 'अस्या०'।२।४।१११ इत्यकारस्यत्वे च शायिका ॥१२२॥
क्लीबे क्तः ।।३।१२३॥ नपुंसके भावे धातो क्तः स्यात् । हसितं तव । क्लीबे इति किम् । हासः ॥१२३॥ प्रलो-- पत्राद्यपवादः। स्त्रियां भावाकोरिति च निवृत्तम् । ननु 'तत् साप्या०' ।३।३।२१। इति सूत्रेणैव लिङ्गत्रयसाधारण्येन भावकर्मणोः क्तस्य विधानाद्भावे च नपुंसकत्वस्य स्वतः सिद्धत्वेन सामान्यसूत्रेणेव सिद्ध सूत्रमिदं व्यर्थमिति चेत् ? अनोच्यते-'भूते' इत्यधिकृत्य 'क्तक्तवतू' ।५।१।१७४। इत्यनेन क्तप्रत्ययविधानात् तस्यैवार्थे 'तत् साप्या०' ।३।३।२१॥ इत्यने भावकर्मणी कथिते, अनेन तु कालसामान्ये नपुसके भावे को विधीयते । यद्यपि 'क्लीबे' इत्यस्याभावेऽपि धात्वर्थरूपे भावे कस्यापिलिङ्गस्यासत्वेन सामान्ये नपुंसकमिति नियमान्नपुसकत्वं प्राप्तम्, घनाद्यन्तानां
Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476