Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 26
________________ सात्त्विकादिपूजाप्रतिपादनम् प्रस्तुतं पुष्पादि नियमादेव निश्चयादेव' द्वितीयायां पूजायाम् ||१ / ११|| त्रैलोक्येत्यादि । त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायां । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ||९ / १२|| त्रैलोक्ये = त्रिषु लोकेषु 'सुन्दरं = प्रधानं यत् पारिजातकुसुमादि जन्दनवनगतं तत्तु = तदेव मनसा | अन्तःकरणेज आपादयति = उपनयति चरमायां = निर्वाणसाधन्यां 'तद्दाते' त्यत्राप्यभिसम्बध्यते । अयमेव विशिष्यते -> अखिलैः गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं = फलकल्पं अजरामरत्वेन हेतुना यत् सद्द्ब्रह्म = परमात्मस्वरूपं तस्य यागः = यजनं = पूजनं तत्परः = तदेकदत्तबुद्धिः | अखिलगुणाधिकस्य हि पूजाऽखिलगुणा कल्याणकन्दली = -> 11 दीति पुष्पपूजाफलं तु -> समोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानपुष्पकं प्राप्य स क्रीडति यथेप्सितम् || १५९ || <- इति रविषेणकृत-पद्मचरित्रे | पुष्पगन्धमाल्यादि = प्रधानसुसुगन्धि-पुष्प- गन्ध-माल्यादिकम् । शिष्टमतिरोहितम् ॥९/११॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अखिलगुणाधिकसद्योगसारसद्ब्रह्मपरः चरमायां यत् त्रैलोक्यसुन्दरं तत्तु मनसा आपादयति ||९ / १२ ॥ इयमपि कारिका भक्तिद्वात्रिंशिकायां [गा. २६ ] समुद्धृता तथा प्राकृतभाषया परावर्त्य किञ्चिच्छब्दभेदेन चैत्य-' वन्दनमहाभाष्ये भुवणे वि सुंदरं जं, वत्थाऽऽहरणाइ वत्थु संभवइ । तं मणसा संपाडइ, जिणम्मि एगग्गथिरचित्तो | ॥ २१५ ॥ - इत्थमुद्धृता । प्रकृतकारिकाद्वितयमुपयुज्य भक्तिद्वात्रिंशिकायां अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ||२६|| <- इत्युक्तम् । आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । प्रधानं पारिजातकुसुमादि नन्दनवनगतं तदेव मनसा उपनयति । अनुमोदनादिनाऽपीयं सम्भवति । तदुक्तं सम्बोधप्रकरणे मूलकारैरपि -> सयमाणयेण पढमा बीया आणावणेण अन्नेहिं । तईया मणसा संपाडणेणणुमोयणाईहिं ॥ १८९ ॥ - इति । यद्वाऽ| हिंसादिभावपुष्पैर्यज्जिनार्चनं तदत्र तृतीयप्रकारेऽवगन्तव्यम्, यथोक्तं मूलकारैरेव अष्टकप्रकरणे -> अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं सत्पुष्पाणि प्रचक्षते || एभिर्देवाधिदेवाय बहुमानपुरस्सरा । दीयते पालनाद्या तु सा वै शुद्धेत्युदाहृता ॥ |<- [ ३ / ६-७ ] इति । इत्थमेव निश्चयतः सब्रह्मपूजनं सम्यक् सम्भवति किन्त्वियमनगाराणामेव सम्भवतीति ध्येयम् । अतिशयितपरितोषाय = कृतज्ञता बहुमानादिगर्भप्रकृष्टप्रसन्नताप्राप्तये । इत्थञ्च पूजया मनः शान्त्युपलम्भात् ध्यानादिकमपि निराबाधं सम्पद्यते । तदुक्तं सम्बोधप्रकरणे पूयाए मणसंती मणसंतीएहिं उत्तमं झाणं । सुहझाणेण य मोक्खो मुक्खे सुक्खं अणाबाहं ॥ १९९ ॥ - इति । ततश्च सर्वसिद्धिफलाभिधाना मनोयोगसारा चित्तोपस्थापितप्रकृष्टपुष्पादिकरणिका तृतीया | भगवदर्चा चारुतमचेत: प्रसादद्वारा निर्वाणसाधनीति भावः । न्यायविजयेन तु मनोविशुद्धिप्रधाना मानसपूजा प्रदर्शिता, तदर्थमेव च बाह्यकर्मविधिः । तदुक्तं अध्यात्मतत्त्वालोके -→ प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषांश्चरितं विशुद्धीकर्तुं मतः कर्मविधिः समग्रः ॥ < [२/१५] सात्त्विकत्वादिना रूपेणाऽपि त्रिधा पूजा सम्भवति । तदुक्तं विचारामृतसङ्ग्रहे सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोः तत्तदभिप्रायविशेषादर्हतो भवेत् ।। अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि એવો જીવ ચરમ પૂજામાં ત્રણ લોકમાં સુંદર એવા જે ફૂલ વગેરે હોય તેને મનથી લાવે છે. [૯/૧૨] Jain Education International २२१ -> या युकानुं स्व३प ટીકાર્થ :- પૂજા કરનારા સમકિતી કાયયોગપ્રધાન વિઘ્નોપશમની એવી પ્રથમ પૂજામાં હંમેશા શ્રેષ્ઠ એવા પુષ્પ, વાસક્ષેપ, માળા વગેરેનું પોતાના હાથથી અર્પણ કરે જ છે. વચનયોગપ્રધાન અભ્યુદયસાધક બીજી પૂજામાં પૂજા કરનારા શ્રાવક વચન દ્વારા બીજા ક્ષેત્રમાંથી શ્રેષ્ઠ પુષ્પ વગેરે નિયમા મંગાવે છે. નન્દનવનમાં રહેલા ત્રિલોક સુંદર એવા જે પારિજાતના ફૂલ વગેરે હોય તેને | मन द्वारा निर्वासाधनी पूर्णमां पू लावे छे. ११ मा लोडना पूर्वार्धना छेडे रखेल 'तदाता' पहनो अडी पग ये संबंध भेडवो. ['तद्दाता' = પૂજા કરનાર = પૂજક. આનો અન્વય હમણાં બતાવેલ જ છે.] પૂજા કરનારને જ શ્રીમદ્જી એક વિશેષણથી જણાવે છે. (= પૂજક જ એક વિશેષણથી વિશિષ્ટ કરાય છે.) બધા ગુણોથી ચઢિયાતું અને સુંદર એવી ધર્મપ્રવૃત્તિના ફળ સમાન તેમ જ અજરામરપણાના કારણે શ્રેષ્ઠ એવું જે પરમાત્મસ્વરૂપ બ્રહ્મતત્ત્વ છે તેની પૂજામાં જ એકદત્ત ચિત્તવાળો = સ્થિરબુદ્ધિવાળો પરમ શ્રાવક તૃતીય મનોયોગપ્રધાન નિર્વાણસાધની પરમાત્મપૂજાનો કરનારો (= અધિકારી) હોય. કહેવાનો મતલબ १, मुद्रितप्रतौ निश्चयादेव' इति नास्ति । २. प्रतौ मुद्रितप्रतौ च 'प्रधानं सुन्दरं ' इति व्यत्ययेन पाठः । मूलानुसारेण सगमार्थकल्पनावृत्त्यनुसारेण च यथा सङ्गच्छते तथा दर्शितमस्माभिः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250