Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
३१४ त्रयोदशं षोडशकम्
सिद्धान्तकथा
8 योगत्रयप्रकाशनम्
स्वसमयप्रवृत्तिः सत्सङ्गमश्च = सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वङ्कष - त्वादिरूपेण, दुष्कृतानां = पापानां सुकृतानां च पुण्यानां यो विपाकः = अनुभवः तदालोचनं तद्विचारणं हेतु| फलभावद्वारेण । अथ अनन्तरं मूलं कारणं अस्यापि = गुरुविनयस्य सर्वमेतत्समुदितं एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥ १३ / १५ || अस्यैव सर्वस्याऽऽदेयतामुपदर्शयन्नाह -> एतस्मिन्नित्यादि ।
एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ॥१३ / १६ ॥ एतस्मिन् खलु = अस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ यत्नः = आदरो विदुषा = सुधिया सम्यक् = समीचीनः सदैव कर्तव्यः; आमूलं = अभिव्याप्त्या कारणं इदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि = योगमार्गस्य ॥ १३/१६॥
यतो
=
=
Jain Education International
=
॥ इति त्रयोदशं साधुसच्चेष्टा- षोडशकम् ॥
कल्याणकन्दली
| तित्थयरकुलाणुरूवधम्माणं । कुज्झा कहं जईणं संवेगविवणं विहिणा ॥ ९०२ || जिणधम्मसुट्ठिआणं सुणिज्ज चरिआई पुब्व| साहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराई ||९०३ || - इति ।
मृत्योः परिभावनं चैव सर्वदा सर्वषत्वादिरूपेण यथा छायामिसेण कालो सयलजीयाणं छलं गवेसंतो । पासं कहवि न मुंचइ, ता धम्मे उज्जमं कुराह ॥ [ ] इति वैराग्यशतकादिवचनैः । उत्तराध्ययनेऽपि -> जहेव सीहो व मियं गहाय मच्चु नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तंमि सहरा भवंति ॥ <- [१३ / २२] इत्युक्तम् । | आचाराङ्गेऽपि -> नत्थि कालस्स णागमो - • [ १ / २ / ३] इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि धर्मजागरिकायां भीसणो मच्चू, सव्वाभावकारी, अर्विनायागमणो, अणिवारणिजो पुणो पुणोऽणुबंधी <- [२/१०] इत्यादिकम् । धर्मोपदेशकुलकेऽपि -> नियमत्थओवरिगयं जइ मधुं पेच्छई इमो लोगो । तो नाहारे वि रुई करेज्ज किमकज्जकरणम्मि ॥ ←- [८] इत्युक्तम् । अन्यैरपि -> गृहीत इव केशेषु मृत्युना धर्ममाचरेत् < [] इत्युक्तम् । पापानां योऽनुभवः तद्विचारणं, यथा -> शक्रेणाऽऽपन्निषेधार्थं यः सिद्धार्थो न्ययुञ्जत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा । - [ ] इति । एवं सुकृतविपाकालोचनमपि भावनीयम् । प्रकृतविशेषणविशिष्टं सदाचारपालनं तु परैः विचारणाभिलापेन वर्ण्यते, तदुक्तं महोपनिषदि -> शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा - || २९५ || एतदर्थसिद्धेः = परमार्थतः सिद्धान्तसत्कथाद्यर्थप्राप्तेः गुरुविनयमूलत्वात्, गुरुविनयं विना प्राप्तस्य सिद्धान्तश्रवणादेः धनकीर्त्यादिवस्त्वन्तरोपायत्वेऽपि न | परमार्थसाधकत्वमिति ध्येयम् । इदमेवाभिप्रेत्य बृहत्कल्पभाष्येऽपि -> विणयाऽहीया विज्जा देंति फलं इह परे य लोगम्मि । न फलंति विणयहीणा सस्साणि व तोयहीणाई || ५२०३ || - इत्युक्तम् । इत्थञ्च योगत्रिकावेदनमकारि, तदुक्तं भागवते -> योगास्त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मका: <- [११/२०/६] । पञ्चमादिषोडशकेषु भक्तियोगः प्रदर्शितः, एकादशे षोडशके ज्ञानयोग उपदर्शितः, नवमे षोडशके इह च क्रियायोगो दर्शितः इति ध्येयम् ॥१३ / १५ ॥
->
मूलग्रन्थे दण्डान्वयस्त्वेवम् विदुषा एतस्मिन् खलु सदैव सम्यक् यत्नः कर्तव्यः हि सर्वस्य योगमार्गस्य इदं परमं आमूलम् ॥१३ / १६ || योगदीपिका स्पष्टा ॥१३/१६॥
इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां त्रयोदशषोडशक- योगदीपिकाविवरणम् ।
* गुरुविनयना हारलोने अपनावीखे
टीडार्थ :- [૧] જૈન આગમિક સિદ્ધાન્તોની કથા = પ્રવૃત્તિ કરવી. [૨] સત્પુરુષોનો સંગ કરવો. [૩] ‘સર્વદા સર્વ જીવોને મૃત્યુ પોતાના તરફ ખેંચી રહ્યું છે' ઈત્યાદિ સ્વરૂપે મૃત્યુની સર્વતોમુખી ભાવના-વિચારણા કરવી. [૪] હેતુમુખે અને ફળમુખે પાપ અને પુણ્યના વિપાકની = અનુભવની વિચારણા કરવી. આ ચારેય ભેગા થયેલા ગુરુવિનયના સાક્ષાત્ કારણ છે. આ ચારેયની અર્થથી [માત્ર શબ્દથી નહિ] સિદ્ધિ થવી એ ગુરુવિનયનું મૂળ કારણ છે. [૧૩/૧૫]
“બધાને માટે આ જ ઉપાદેય = ગ્રહણ કરવા યોગ્ય છે' એવું બતાવતા ગ્રંથકારથી કહે છે કે
ગાથાર્થ :- વિદ્વાને આમાં જ સદાય સમ્યક્ યત્ન કરવો જોઈએ, કારણ કે બધા યોગમાર્ગનું આ જ પરમ વ્યાપક કારણ छे. [१३/१९ ]
ઢીકાર્થ :- પૂર્વોત સિદ્ધાન્તકથા વગેરેમાં જ વિદ્વાને સદૈવ સમ્યક્ આદર કરવો જોઈએ. કારણ કે આ સિદ્ધાન્તકથા વગેરે જ બધા યોગમાર્ગનું પરમ અભિવ્યાપ્ત
सर्वव्यापी
राग छे. [13/१९]
१. मुद्रितप्रती ' प्रधानं' इति नास्ति ।
=
=
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250