Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 149
________________ ३४४ पञ्चदशं षोडशकम् 8 ब्रह्मगतबृहत्तमत्वनिरुक्तिः सद्भूतत्ववियोगात् । तत् तदेव परमात्मस्वरूपं परं = प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्याऽयोगात् । | तद्योगात् = परतत्त्वविषयकत्वसम्बन्धात् अस्यापि = अनालम्बनयोगस्यापि एषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये = सर्वस्मिन्नपि जगति सुन्दरता = शेषवस्तुभ्यः' शोभनता ॥ १५ / ७॥ 'कः पुनरजालम्बनयोगः कियन्तञ्च कालं भवतीत्याह 'सामर्थ्येत्यादि । सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्यादया । साऽनालम्बनयोगः प्रोक्तस्तददर्शनं यावत् ।। १५/८|| सामर्थ्य योगतः -> शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ कल्याणकन्दली छिद्यते, तदुक्तं योगशिखोपनिषदि अन्नपूर्णोपनिषदि मुण्डकोपनिषदि च भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते | चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ←- [यो.शि.५/४५- अन्न. ४ / ३१ मु. २ / २ / ८] इति । परमात्मरूपं प्रकृष्टं ब्रह्म, तदुक्तं तैत्तिरीयोपनिषदि -> सत्यं ज्ञानमनन्तं ब्रह्म <- - [३/१/१] इति । -> ब्रह्म देवो ब्रह्म तपो, ब्रह्म ज्ञानञ्च [ ] इत्यप्यत्रानुस्मर्तव्यम् । शाश्वतम् < ततः = परमात्मस्वरूपात् अन्यस्य बृहत्तमस्य अयोगात् । अत्र बृहत्त्वं न प्रदेशसङ्ख्यापेक्षया बोध्यम्, लोकालोकव्यापिनि | गगन एव तादृशबृहत्तमत्वसम्भवात् । नाऽपि कालव्यापित्वविवक्षया, नित्यपदार्थसाधारण्यात् । नापि गमनशक्तिपुरस्कारेण, पुद्गलसाधारणत्वात् । नापि ज्ञानशक्तिरूपेण, सकलजीवसाधारण्यात् । नाऽपि ज्ञानाभिव्यक्त्यपेक्षया, भवस्थकेवलिन्यपि गतत्वात् । | किन्तु कर्मानावृतचैतन्यविवक्षया तद् बोध्यमित्यन्यैरपरिशीलितोऽयं पन्थाः । सकलकर्मविनिर्मुक्तमिदमेव ब्रह्मतत्त्वं तत्त्वतो ध्येयम् । तदुक्तं अध्यात्मसारे -> • पुण्य-पापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येयमेषा शुद्धनयस्थितिः ॥ ← [१८/ १३०] इति । तद्दर्शनादेव मुक्तिप्राप्तिरिति । यथोक्तं योगप्रदीपे मुक्ति: श्रीपरमानन्दध्यानेनानेन योगिना । रूपातीतं निराकारं ध्यानं ध्येयं ततोऽनिशम् ॥ १०७ ॥ - इति । इदञ्च परैरपीष्यते । यथोक्तं श्वेताश्वतरोपनिषदि तमेव | विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - [६/१५] । -> -> परतत्त्वविषयकत्वसम्बन्धात् उपलक्षणेन उत्तमसुखोपेत परतत्त्वफलकत्वाच्च अनालम्बनयोगस्य त्रैलोक्यसुन्दरता ज्ञेया । तदुक्तं भगवद्गीतायामपि -> प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || ← [६ / [२७] इति । तदपेक्षयाऽन्येषां सर्वेषामेव तत्त्वतोऽनादेयता यदि तदन्येभ्योऽनालम्बनयोगोपस्थापनं न स्यादिति परेषामपि सम्मतम् । तदुक्तं याज्ञवल्क्यस्मृतौ सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् । सर्वे धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः || [ ११ / १] इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ ←← [११ / ३४ ] इति । परतत्त्वदर्शनमेव प्रधानमिति भावः । यथोक्तं योगबिन्दी • योगस्येदं फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिरुदाहृतम् ||५०६|| ← इति । एतदनुसारेण दिगम्बराऽमितगतिनाऽपि योगसारप्राभृते -> ध्यानस्येदं फलं मुख्यमैकान्तिकमनुतरम् । आत्मगम्यं परं ब्रह्म ब्रह्मविद्भिरुदाहृतम् || [ ७/३०] - इत्युक्तम् ॥१५ / ७॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् सामर्थ्ययोगतो तत्र या असङ्गशक्त्याढ्या इति दिदृक्षा सा तददर्शनं यावत् अनालम्बनयोगः प्रोक्तः ||१५ / ८ | इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. १९] समुद्धृता । -> ટીકાર્ય :- આ સિદ્ધ પરમાત્માસ્વરૂપ પરતત્ત્વનું દર્શન થાય ત્યારે સર્વ વસ્તુનું દર્શન થાય છે; કારણ કે જીવાદિ અમૂર્ત વસ્તુવિષયક દર્શન સર્વાવગાહી બને છે. તે જ સિદ્ધસ્વરૂપ સદ્ભૂત-સત્ત્વ તાત્ત્વિક છે. જ્ઞાનાવરણાદિ કર્મની વિકૃતિથી જીવાદિ વસ્તુનું સ્વરૂપ ઉપદ્રવ પામેલું હોવાથી તે સદ્ભૂતતાને ગુમાવે છે. તે જ સિદ્ધપરમાત્મસ્વરૂપ પ્રકૃષ્ટ બ્રહ્મતત્ત્વ મનાયેલ છે, કેમ કે એનાથી બૃહત્-મોટું બીજું કાંઈ છે જ નહિ. પરતત્ત્વ અવગાહીતાના યોગથી આ અનાલંબન ધ્યાનયોગ પણ સંપૂર્ણ જગતમાં અન્ય વસ્તુઓ કરતાં અધિક સુંદર છે. તેની સુંદરતા લૌકિક અને લોકોત્તર શાસનમાં પ્રસિદ્ધ છે. [૧૫/૭] અનાલંબન ધ્યાનયોગ શું છે ? અને તે કેટલા કાળ સુધી હોય છે ? આ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી જણાવે છે કેમાથાર્થ :- સામર્થ્યયોગથી તેને જોવાની જે અસંગશક્તિપૂર્ણ એવી ઈચ્છા તે પરતત્ત્વનું દર્શન ન થાય ત્યાં સુધી અનાલંબન योग सेवाये छ. [१५/८ ] १. मुद्रितप्रती 'शेषवस्तुनः' इति पाठः । Jain Education Intemational 8 અનાલંબન યોગનો પરિચય For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250