Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 158
________________ 88 स्वाभाविकसुखस्वरूपप्रकाशनम् ॐ वतिक्षायिकचारित्राधात्मस्वभावभूतांशलक्षणाः, ताभ्योऽतीतं; सिद्धिसमये तन्निवृत्त्यभिधानात् । सदा शिवमति सदाशिवं, आदौ भवं = आद्यं, प्रधाजप्रवाहापेक्षयाऽऽदिभावेनाऽवस्थितं वा, एतदादिपदवाच्यम्। आदिना निरअनादिग्रहः, परतत्त्वमिति सर्वत्र सम्बन्धजीयम् ॥१५/१६|| ॥ इति पञ्चदशं ध्येयस्वरूपषोडशकम् ॥ कल्याणकन्दली असङ्गमिति, तदुक्तं शक्रस्तवे -> ॐ नमो भगवते निःसङ्गाय - [६] इति । देवेन्द्रस्तवेऽपि -> अजरा अमरा असंगा य - [३००] इत्युक्तम् । जिनसहस्रनामस्तोत्रेऽपि -> असङ्ग - [७३] इत्युक्तम् । अष्टावक्रगीतायामपि - -> असङ्गो निःस्पृहः शान्तः <- [१/१२] इत्युक्तम् । तदुक्तं बृहदारण्यकोपनिषदि -> असङ्गो ह्ययं पुरुषः - [४/ ३/१६] इति । साङ्ख्यसूत्रेऽपि -> असङ्गोऽयं पुरुषः - [१/१५] इत्युक्तम् । निःशेषकलातीतमिति, तदुक्तं ऋषिमण्डलस्तोत्रे -> सकलं निष्कलं तुष्टं - [१९] इत्यादि । अष्टकप्रकरणे मूलकारैरपि -> यो वीतरागः सर्वज्ञः यः शाश्वतसुखेश्वरः ।। क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा ।। - [१/३] इत्युक्तम् । सिद्धिसमये तन्निवृत्त्यभिधानात् = तथाभव्यत्वादिविच्छेदप्रतिपादनात् । अत एव -> 'सिद्धे नो भव्वे, नो अभञ्चे - [ ] इति आगमोऽपि सङ्गच्छते । तदुक्तं विशेषावश्यकभाष्येऽपि -> तस्सोदइयाईया भावा भब्यत्तं च विणिवत्तए समयं <- [३०८७] । -> "तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं = युगपत् विनिवर्तते । भवा = भाविनी सिद्भिर्यस्यासौ हि भव्य उच्यते । न च सा तस्य भाविनी, साक्षात् सञ्जातत्वात् । ततोऽसौ न भव्य इति भव्यत्वं निवर्तते" - इति तद्वृत्तौ श्रीहेमचन्द्रसूरयः । सदाशिवमिति । तदुक्तं योगदृष्टिसमुच्चये -> सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ||१३०|| तल्लक्षणाऽविसंवादात् निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।१३।। - इति ।। तदक्तं शक्रस्तवेऽपि -> सदाशिवाय -[६] इति । तदक्तं श्रीजयशेखरसरिभिः प्रबोधचिन्तामणी -> सर्वोपप्लवमक्तत्वादेष एव सदाशिवः - [४५९] इति । सिद्धसहस्रनामवर्णनच्छन्दे न्यायविशारदेन योगदीपिकाकृताऽपि -> सदातन सदाशिव सदाशुद्ध स्वामी पुरातनपुरुष पुरुषवर वृषगामी - [२] इत्युक्तम् । आदी भवं = आयं, यथोक्तं महाभारते -> त्वमादिदेवः पुरुषः - [भीष्मपर्व ३५/३८:] इति । प्रधानप्रवाहापेक्षया = ऋत्रुसूत्रादेशेन शुद्धचिद्धाराविवक्षया आदिभावेन = प्राथम्येन अवस्थितं वा इदमेव भगवच्छब्दवाच्यम्, यथोक्तं विष्णुपुराणे -> वाचको भगवच्छब्दस्तस्याऽऽद्यस्याऽक्षयात्मनः ४-६/५/६८] । यद्वा आदिमोक्षपथप्रकाशकत्वेन आद्यम् दश्यतां महादेवस्तोत्रं गा.४०] । निरञ्जनादिग्रह इति । तदुक्तं शक्रस्तवे -> ॐ नमोऽर्हते निरञ्जनाय - [८] इति । आदिना निराकारादिग्रहणमपि बोध्यम् । यदुक्तं ऋषिमण्डलस्तोत्रे -> निरञ्जनं निराकारं निर्लेपं वीतसंशयम् ।।१९।। ईश्वरं ब्रह्म सम्बुद्धं शुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं लोकालोकप्रकाशकम् - ||२०|| योगप्रदीपेऽपि -> ध्येयः परपदारूढः परमात्मा निरञ्जनः - [२२] इत्युक्तम् । अध्यात्मगीतायामपि -> अनन्तज्ञानवान् पूर्णो देवो विभुर्निरञ्जनः - [१३९] इत्युक्तम् । अर्हनामसहस्रसमुच्चये श्रीहेमचन्द्रसूरिभिरपि -> निष्कलङ्को निरञ्जनः & [२/१०] इत्युक्तम् । परमात्मद्वात्रिंशिकायां अमितगतिनाऽपि -> निरञ्जनं नित्यमनन्तमेकं तं देवमाप्तं शरणं प्रपद्ये - [१८] इत्युक्तम् । जिनसहस्रनामस्तव -> शुद्धो निस्तमस्को निरञ्जनः - [१५] इत्युक्तम् । तदुक्तं ज्ञानार्णवेऽपि -> निष्कलः करणातीतो निर्विकल्पो निरञ्जनः । अनन्तवीर्यतापन्नो नित्यानन्दाभिनंदितः ।। - [४२/७३] इति । यथोक्तं श्वेताश्वतरोपनिषदि अपि -> निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम् - [६/१९] । तदुक्तं योगीन्द्रेणापि परमप्पयासग्रन्थे -> अखउ णिरंजणु सिउ <-[ ] इति । योगचूडामण्यु-पनिषदि अपि -> ॐ नित्यं शुद्धं निर्विकल्पं निरञ्जनं निराख्यातं -[७२] इत्याद्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैरपि-> व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसंख्यं यस्त्वां न वेद न स वीर ! हितानि वेद ।। - [२/१] इत्युक्तम् । योगसारेऽपि -> निष्कलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः ।। - [ ] इति प्रोक्तम् । योगसारप्राभृते अमितगतिनाऽपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थो निरञ्जनः । निराबाधः सदानन्दो मुक्ताऽत्माऽवतिष्ठते ।। - [७/२९] इत्युक्तम् ॥१५/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां पञ्चदशषोडशक-योगदीपिकाविवरणम् । આદિમાં ઉત્પન્ન થવાથી તે આદ્ય કહેવાય છે. અથવા પ્રધાન સુખાદિના] પ્રવાહની અપેક્ષાએ આદિભાવરૂપે = પ્રાથમિક ભાવરૂપે રહેલ હોવાથી આદ્ય કહેવાય છે. ગાથામાં રહેલ આદિ શબ્દથી નિરંજન વગેરેનું ગ્રહણ કરવું. અર્થાત નિરંજન વગેરે શબ્દો દ્વારા તે વાચ્ય છે. ઉદ્દેશ્ય [વિશેષ તરીકે પરતત્વનો સર્વત્ર સંબંધ જોડવો. જે અમે છેલ્લી ચારેય ગાથામાં કરેલ છે.[૧૫/૧૬] Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250