________________
88 स्वाभाविकसुखस्वरूपप्रकाशनम् ॐ वतिक्षायिकचारित्राधात्मस्वभावभूतांशलक्षणाः, ताभ्योऽतीतं; सिद्धिसमये तन्निवृत्त्यभिधानात् । सदा शिवमति सदाशिवं, आदौ भवं = आद्यं, प्रधाजप्रवाहापेक्षयाऽऽदिभावेनाऽवस्थितं वा, एतदादिपदवाच्यम्। आदिना निरअनादिग्रहः, परतत्त्वमिति सर्वत्र सम्बन्धजीयम् ॥१५/१६||
॥ इति पञ्चदशं ध्येयस्वरूपषोडशकम् ॥
कल्याणकन्दली असङ्गमिति, तदुक्तं शक्रस्तवे -> ॐ नमो भगवते निःसङ्गाय - [६] इति । देवेन्द्रस्तवेऽपि -> अजरा अमरा असंगा य - [३००] इत्युक्तम् । जिनसहस्रनामस्तोत्रेऽपि -> असङ्ग - [७३] इत्युक्तम् । अष्टावक्रगीतायामपि - -> असङ्गो निःस्पृहः शान्तः <- [१/१२] इत्युक्तम् । तदुक्तं बृहदारण्यकोपनिषदि -> असङ्गो ह्ययं पुरुषः - [४/ ३/१६] इति । साङ्ख्यसूत्रेऽपि -> असङ्गोऽयं पुरुषः - [१/१५] इत्युक्तम् । निःशेषकलातीतमिति, तदुक्तं ऋषिमण्डलस्तोत्रे -> सकलं निष्कलं तुष्टं - [१९] इत्यादि । अष्टकप्रकरणे मूलकारैरपि -> यो वीतरागः सर्वज्ञः यः शाश्वतसुखेश्वरः ।। क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा ।। - [१/३] इत्युक्तम् । सिद्धिसमये तन्निवृत्त्यभिधानात् = तथाभव्यत्वादिविच्छेदप्रतिपादनात् । अत एव -> 'सिद्धे नो भव्वे, नो अभञ्चे - [ ] इति आगमोऽपि सङ्गच्छते । तदुक्तं विशेषावश्यकभाष्येऽपि -> तस्सोदइयाईया भावा भब्यत्तं च विणिवत्तए समयं <- [३०८७] । -> "तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं = युगपत् विनिवर्तते । भवा = भाविनी सिद्भिर्यस्यासौ हि भव्य उच्यते । न च सा तस्य भाविनी, साक्षात् सञ्जातत्वात् । ततोऽसौ न भव्य इति भव्यत्वं निवर्तते" - इति तद्वृत्तौ श्रीहेमचन्द्रसूरयः ।
सदाशिवमिति । तदुक्तं योगदृष्टिसमुच्चये -> सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ||१३०|| तल्लक्षणाऽविसंवादात् निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।१३।। - इति ।। तदक्तं शक्रस्तवेऽपि -> सदाशिवाय -[६] इति । तदक्तं श्रीजयशेखरसरिभिः प्रबोधचिन्तामणी -> सर्वोपप्लवमक्तत्वादेष एव सदाशिवः - [४५९] इति । सिद्धसहस्रनामवर्णनच्छन्दे न्यायविशारदेन योगदीपिकाकृताऽपि -> सदातन सदाशिव सदाशुद्ध स्वामी पुरातनपुरुष पुरुषवर वृषगामी - [२] इत्युक्तम् ।
आदी भवं = आयं, यथोक्तं महाभारते -> त्वमादिदेवः पुरुषः - [भीष्मपर्व ३५/३८:] इति । प्रधानप्रवाहापेक्षया = ऋत्रुसूत्रादेशेन शुद्धचिद्धाराविवक्षया आदिभावेन = प्राथम्येन अवस्थितं वा इदमेव भगवच्छब्दवाच्यम्, यथोक्तं विष्णुपुराणे -> वाचको भगवच्छब्दस्तस्याऽऽद्यस्याऽक्षयात्मनः ४-६/५/६८] । यद्वा आदिमोक्षपथप्रकाशकत्वेन आद्यम् दश्यतां महादेवस्तोत्रं गा.४०] ।
निरञ्जनादिग्रह इति । तदुक्तं शक्रस्तवे -> ॐ नमोऽर्हते निरञ्जनाय - [८] इति । आदिना निराकारादिग्रहणमपि बोध्यम् । यदुक्तं ऋषिमण्डलस्तोत्रे -> निरञ्जनं निराकारं निर्लेपं वीतसंशयम् ।।१९।। ईश्वरं ब्रह्म सम्बुद्धं शुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं लोकालोकप्रकाशकम् - ||२०|| योगप्रदीपेऽपि -> ध्येयः परपदारूढः परमात्मा निरञ्जनः
- [२२] इत्युक्तम् । अध्यात्मगीतायामपि -> अनन्तज्ञानवान् पूर्णो देवो विभुर्निरञ्जनः - [१३९] इत्युक्तम् । अर्हनामसहस्रसमुच्चये श्रीहेमचन्द्रसूरिभिरपि -> निष्कलङ्को निरञ्जनः & [२/१०] इत्युक्तम् । परमात्मद्वात्रिंशिकायां अमितगतिनाऽपि -> निरञ्जनं नित्यमनन्तमेकं तं देवमाप्तं शरणं प्रपद्ये - [१८] इत्युक्तम् । जिनसहस्रनामस्तव -> शुद्धो निस्तमस्को निरञ्जनः - [१५] इत्युक्तम् । तदुक्तं ज्ञानार्णवेऽपि -> निष्कलः करणातीतो निर्विकल्पो निरञ्जनः । अनन्तवीर्यतापन्नो नित्यानन्दाभिनंदितः ।। - [४२/७३] इति । यथोक्तं श्वेताश्वतरोपनिषदि अपि -> निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम् - [६/१९] । तदुक्तं योगीन्द्रेणापि परमप्पयासग्रन्थे -> अखउ णिरंजणु सिउ <-[ ] इति । योगचूडामण्यु-पनिषदि अपि -> ॐ नित्यं शुद्धं निर्विकल्पं निरञ्जनं निराख्यातं -[७२] इत्याद्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैरपि-> व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसंख्यं यस्त्वां न वेद न स वीर ! हितानि वेद ।। - [२/१] इत्युक्तम् । योगसारेऽपि -> निष्कलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः ।। - [ ] इति प्रोक्तम् । योगसारप्राभृते अमितगतिनाऽपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थो निरञ्जनः । निराबाधः सदानन्दो मुक्ताऽत्माऽवतिष्ठते ।। - [७/२९] इत्युक्तम् ॥१५/१६॥
इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां पञ्चदशषोडशक-योगदीपिकाविवरणम् । આદિમાં ઉત્પન્ન થવાથી તે આદ્ય કહેવાય છે. અથવા પ્રધાન સુખાદિના] પ્રવાહની અપેક્ષાએ આદિભાવરૂપે = પ્રાથમિક ભાવરૂપે રહેલ હોવાથી આદ્ય કહેવાય છે. ગાથામાં રહેલ આદિ શબ્દથી નિરંજન વગેરેનું ગ્રહણ કરવું. અર્થાત નિરંજન વગેરે શબ્દો દ્વારા તે વાચ્ય છે. ઉદ્દેશ્ય [વિશેષ તરીકે પરતત્વનો સર્વત્ર સંબંધ જોડવો. જે અમે છેલ્લી ચારેય ગાથામાં કરેલ છે.[૧૫/૧૬]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org