________________
३५२ पञ्चदशं षोडशकम् 888 परतत्त्वस्याऽरूपित्वेऽप्यादित्यवर्णोपमोपपत्तिः 0 स्वभावत्वात् । अवर्ण - वर्णरहितं, अस्पर्श = स्पर्शरहितं, अगुरुलघु = अमूर्तद्रव्यत्वात् अगुरु-लघुपरिणामोपेतम् ॥१५/१५|| 'सर्वेत्यादि ।
सर्वाऽऽबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाऽऽद्यादिपदवाच्यम् ॥१५/१६॥ सर्वाभिः आबाधाभिः = पीडाभी रहितम् । परमानन्दसुखेज मोक्षसुखेज' सर्वसांसारिकसुखातिशायिसुखेनेत्यर्थः, सङ्गतं = युक्तम् । असङ्गं = सगरहितम् । निःशेषा याः कलाः तथाभव्यत्वाऽसिद्धत्वयोगसह
कल्याणकन्दली न हालिद्दे, न सुकिल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गरुए, न लहए, न सीए, न उण्हे, न निद्धे, न लुक्खे, न काए, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा <- [१७१/२] इत्युक्तम् । इदमेवाभिप्रेत्य द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैः -> न शब्दो न रूपं रसो| नापि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वाऽपरत्वं न यस्याऽस्ति संज्ञा स एकः परात्मा गतिमें जिनेन्द्रः ।।। [[२१/१५] - इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि -> से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता <- [५/२] इत्यादि । अध्यात्मगीतायामपि -> नाहं कृशस्तथा स्थूलो नाहं कृष्णो न पीतकः । रक्तो नास्मि तथा श्वेतो नीलो नास्मीति वेम्यहम् ॥४४५|| - इत्युक्तम् । जिनसहस्रनामस्तोत्रे जीवहर्षगणिनाऽपि -> अगन्धो अवर्णो असंस्पर्शनीयः - [८] इत्युक्तम् । पञ्चास्तिकाये नियमसारेऽपि -> अरसमरूवमगंधं - [पं.१२७ नि.४६] इत्याद्युक्तम् । ब्रह्मविद्योपनिषदि अपि -> अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयःअरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ।।८२।। इत्युक्तम् । योगकुण्डल्युपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेवावशिष्यत्यमलं निरामयम् ।। - [३/३५] इत्युक्तम् । कठोपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्
- [१/३/१५] इत्युक्तम् । बृहदारण्यकोपनिषदि अपि -> अस्थूलमनण्वह्रस्वमदीर्घमलोहितम् <-[१/८/८] इत्युक्तम् । न च प्राक् [१५/१४] आदित्यवर्णमित्युक्तं, अधुना त्ववर्णमिति कथं नानयोर्विरोध इति शङ्कनीयम, प्रकाशकत्वसादृश्यात् पूर्वं आदित्यवर्णमित्युपमोक्तिः साम्प्रतन्त्ववर्णमित्यनेन वस्तुस्थित्युक्तिरिति न विरोधः । बालावबोधाय आदित्यवर्णोपमाऽपि देशोपमैव केवलज्ञानस्य लोकालोकप्रकाशकत्वात. तदक्तं आवश्यकनियुक्तौ -> चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियं पुण नाणं लोयालोयं पयासेइ ॥१११५|| - इति । तदुक्तं मूलकारैरेव अष्टकप्रकरणे -> यच्च चन्द्रप्रभाद्यत्र ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्, तद्धर्मो नोपपद्यते ।। - [३०/६] इति । तदुक्तं केवलज्ञानविंशिकायामपि -> चंदप्पभाइणायं तु णायमित्तं मुणेयध्वं । जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो ।। - [१८/१६-२७] इति । यथा चैतत्तत्त्वं तथा विस्तरतो निरूपितमस्माभिः जयलतायाम् [खण्ड-३ स्या.रह.पू. ] । अगुरुलघु । प्रयोगस्त्वेवं परतत्त्वं अगुरुलघुपरिमाणोपेतं, अमूर्तद्रव्यत्वात्, गगनवदिति ॥१५/१५॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सर्वाबाधारहितं, परमानन्दसुखसङ्गतं, असङ्गं, निःशेषकलातीतं, सदाशिवाद्यादिपदवाच्यम् ॥१५/१६॥ सर्वसांसारिकसुखातिशायिसुखेनेति । तदुक्तं प्रज्ञापनायां -> सुरगणसुहसम्मत्तं सब्बद्धापिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ - [प्र.पद-२.स.५४ गा.१६३] इति । समयसारे देवानन्दसूरिभिरपि -> सुरासुरनराणं सञ्चद्धापिंडिआई सोक्खाई जस्साणंतभागे न भवंति - [९] इत्युक्तम् । बौद्धानामपि सम्मतमिदं, तदुक्तं मज्झिमनिकाये -> निव्वाणं परमं सुखं - [२/३/५] । धेरगाथायामपि -> निव्वाणसुखा परं नत्थि - [१६/१/४७८] इत्युक्तम् । मूलकारैः योगबिन्दौ अपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थस्ततश्च सः । निराबाधः सदानन्दो मुक्तावात्माऽवतिष्ठते ॥५०४|| - इत्युक्तम् । अष्टकप्रकरणेऽपि -> अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ।। - [३२/७] इत्युक्तम् । सिद्धसुखविंशिकायामपि -> सिद्धस्स सुक्खरासी सब्वद्धापिंडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा ।। - [२०/६] इति प्रोक्तम् । છે. સ્પર્શરહિત છે. અમૂર્ત દ્રવ્યસ્વરૂપ હોવાના કારણે અગુરુલઘુપરિણામવાળું છે. [૧૫/૧૫]
ગાથાર્થ :- પરતત્ત્વ “સર્વ પીડાઓથી રહિત છે. 'પરમાનંદસુખથી યુકત છે. અસંગ છે. ૨"બધી કલાઓથી રહિત , छ. २२सहाथिर माघ १३ शोथी अमिय छ. [१५/१६]
ટીકાર્ય :- પરતત્વ બધી પીડાઓથી રહિત છે. સર્વ સાંસારિક સુખ કરતાં ચઢિયાતા સુખથી યુક્ત છે. તે સંગરહિત છે. તથાભવ્યત્વ, અસિદ્ધત્વ,યોગસહવર્તી ક્ષાયિક ચારિત્ર વગેરે આત્મસ્વભાવસ્વરૂપ અંશાત્મક કલાઓથી રહિત છે; કારણ કે મુક્તિ સમયે તેના જવાની વાત શાસ્ત્રમાં કહેલી છે. તેમાં સદા શિવ = કલ્યાણ હોવાથી તેને સદાશિવ કહેવાય છે. પ્રારંભમાં = १. मुद्रितप्रती इदं पदं नास्ति । २. मुद्रितप्रतौ ‘असङ्ग' पदं नास्ति । ३. मुद्रितप्रती -> तथा भव्यत्वसिद्धत्व... <- इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org