________________
परतत्त्वस्य ब्रह्मत्वसमर्थनम्
३५१
वर्ण
=
सूर्यसदृशं अमलं
मलरहितं न क्षरति = न प्रच्यवते स्वभावात् कदाचिदिति अक्षरं ब्रह्म बृहत्त्वात् बृंहकत्वाच्च यद् ब्रह्माद्यैः महामुनिभिः गीयते ॥ १५ / १४ || 'नित्यमित्यादि ।
नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु ॥१५ / १५ ॥
नित्यं
ध्रुवं, प्रकृतिभिः मूलोत्तरभेदभिन्नकर्मस्वभावरूपाभिः वियुक्तं स्वतन्त्रपरिभाषया परतन्त्रपरिभाषया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः तया वियुक्तम् । लोकालोकयोरालोकले आभोगः = विस्तारः अनन्त| कालोपयोगाऽविच्छेदरूपो यस्य तत्तथा । स्तिमिततरङ्गः = निश्चलोर्मिः यः उदधिः तत्समं, अ ( नुद् ) वृत्तिपूर्णकलश
=
=
कल्याणकन्दली
->
← इति ।
मलरहितं
=
->
- [३७ उत्तरार्ध] इति । यथोक्तं वीतरागस्तोत्रेऽपि यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥१ / १ || - इति । श्रीरत्नप्रभसूरिभिरपि कुवलयमालायां आदित्यवर्णं तमसः परस्ताद| स्तान्यतेजःप्रचयप्रभावम् । यमेकमाहुः पुरुषं पुराणं परात्मदेवाय नमोऽस्तु तस्मै ॥ ← इत्युक्तम् । भक्तामरस्तोत्रेऽपि -> त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् ←- [२३] इत्येवं श्रीमानतुङ्गसूरिभिरुक्तम् । तत्त्वानुशासनेऽपि तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमम् । परमात्मानमर्हन्तं ध्यायेन्निःश्रेयसाप्तये || ← [ ४/ [३९] इत्युक्तम् । शुक्लयजुर्वेदेऽपि वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् ← [१८] इति प्रोक्तम् । ऋग्वेदेऽपि ॐ नग्नं सुधीरं दिग्वाससं ब्रह्मगर्भं सनातनं उपैमि वीरं पुरुषमर्हन्तमादित्यवर्णं तमसः परस्तात् स्वाहा ← - इत्युक्तम् । महावाक्योपनिषदि अपि ब्रह्मैक्यं तत् आदित्यवर्णः तमसस्तु पारे - [८] इत्युक्तम् । तदुक्तं भगवद्गीतायामपि सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् [ ८/९ ] शुद्धमिति । तदुक्तं समाधिशतके निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति |परमात्मेश्वरो जिनः || ६ || - इति । बृहत्त्वात् बृंहकत्वाच्चेति । तदुक्तं विष्णुपुराणे बृहत्त्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयते - [३/२२] इति । प्रबोधचिन्तामणौ तु -> परमज्ञानयोगाच्च परमब्रह्मनामभाक् – [४६१] इतिश्रीजयशेखरसूरिभिरुक्तम् । इदञ्च 'मनो महान् मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर:' [वा. पु. ४/२५] इति वायुपुराणोक्तं मति - ब्रह्मपदयोः पर्यायत्वमधिकृत्याऽवगन्तव्यमित्याभाति । यद्वा ज्ञानमेव परं ब्रह्म [२ / ३ / ४८ ] इति विष्णुपुराणवचनमवलम्ब्यापि तत् सम्यक् स्यात् परमते । महाभारते विष्णुनामसहस्रे च परमं यो महद्ब्रह्म - [ अनुशासनपर्व - १४९/९- विष्णुसहस्रनाम[९] इत्युक्तम् । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धात्मा श्रीमहाब्रह्म < - [ ५३ ] इत्यावेदितम् । रमणगीतायामपि -> तदेकं परमं वस्तु शक्तिमेके प्रचक्षते । स्वरूपं केऽपि विद्वांसो ब्रह्माऽन्ये पुरुषं परे ।। - [ १२ / १८ ] इति प्रोक्तम् । शतपथब्राह्मणे -> सत्यमेव ब्रह्म <- [ २/१/४/१० ] इत्युक्तम् । गोपथब्राह्मणे तु -> मनो वै ब्रह्म <- [२/५/ ४] इत्युक्तम् । शाङ्ख्यायनाऽऽरण्यके तु→ सर्वा वाग् ब्रह्म <- [७/२३] इत्युक्तम् । तैत्तिरीयाssरण्यके तु | अन्नं ब्रह्मेति व्यजानात् <- [९ / २] इत्युक्तम् । तैत्तिरीयोपनिषदि च आनन्दो ब्रह्मेति व्यजानात् <- [३/६] इत्युक्तम् । | माण्डूक्योपनिषदि बृहदारण्यकोपनिषदि च अयमात्मा ब्रह्म - [मा. २ बृ. ४/४/५ ] इत्युक्तम् । द्रव्यार्थिकनयापेक्षयेदमपि सम्यक्, शुद्धात्मद्रव्यार्पणात् । एतेन -> अभयं वै ब्रह्म <- [ ४/४/२५ ] इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम्, भयादिदोषापेतस्यैव तस्य शुद्धिसम्भवादिति दिक् ।।१५ / १४॥
<
->
मूलग्रन्थे दण्डान्वयस्त्वेवम् नित्यं प्रकृतिवियुक्तं, लोकालोकावलोकनाभोगं, स्तिमिततरङ्गोदधिसमं, अवर्णं, अस्पर्श, अगुरुलघु ।।१५ / १५ ।। परतन्त्रपरिभाषया = साङ्ख्यदर्शनपरिभाषया । तया = प्रकृत्या वियुक्तं शुद्धमित्यर्थः । तदुक्तं योगचूडामण्युपनिषदि -> नित्यं शुद्धं <- [१] इति । अनुद्वृत्तिपूर्णकलशस्वभावत्वात् = निभृतपरिपूर्णकुम्भशीलत्वात् निवृत्तविकल्पोर्मिकम् । वर्णरहितं स्पर्शरहितमिति । उपलक्षणाददीर्घत्वादिकमप्यवगन्तव्यम् । तदुक्तं सिद्धानामेकत्रिंशद्गुणप्रदर्शनावसरे आचाराङ्गसूत्रे से न दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसे, न परिमंडले, न किण्हे, न नीले, न लोहिए, देवाय छे. [१५/१४ ]
->
गाथार्थ :- ते "नित्य, अतिरडित, लोडअलोउने भेवाना उपयोगवाणुं, "निस्तरंग समुद्र पुं, "वर्गरहित, "स्पर्शरक्षित अने अगुरुलघु छे. [१५/१५ ]
टीडार्थ :- परतत्त्व नित्य = ધ્રુવ છે. પ્રકૃતિથી રહિત છે. જૈન દર્શનની પરિભાષા મુજબ પ્રકૃતિ મૂલ-ઉત્તર ભેદથી વિવિધ પ્રકારના કર્મ સ્વરૂપ છે. પરદર્શન = સાંખ્યદર્શનની પરિભાષા મુજબ પ્રકૃતિ એ સત્ત્વગુણ-રજોગુણ-તમોગુણની સામ્યઅવસ્થા છે. [બન્નેના મત મુજબ પરતત્ત્વ પ્રકૃતિરહિત છે.] લોકાલોકને જોવામાં અનંત કાલ સુધી ઉપયોગમાં વિચ્છેદ ન પડે તેવા વિસ્તારવાળું છે. જેના તરંગો શાંત-નિશ્ચલ છે એવા સમુદ્ર જેવું છે; કેમ કે તે નહિ ઉભરાતા - પૂર્ણ કલશના જેવા સ્વભાવવાળું છે. વર્ણશૂન્ય
Jain Education International
<
->
For Private & Personal Use Only
www.jainelibrary.org