Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 163
________________ ३५८ षोडशं षोडशकम् * सौदरनन्दकाव्यनिराकरणम् 8 मुक्तिः सिद्धा, न तु सर्वथाऽभावरूपा बौद्धाभिमता, विध्यातदीपेन कल्पस्य सर्वथातुच्छरूपस्याऽऽत्मजो हन्त इति प्रत्यवधारणे जात्यन्तरस्य = दोषवतः सतोऽदोषवत्त्वस्य अप्राप्तेः । न हि खरविषाणादिवत् तुच्छरूपतामापन्नोऽविद्यारहितावस्थां 'वस्तुसती भजते इति जात्यन्तराऽप्राप्तिः । न च स्वाऽभावार्थ कस्यचित् प्रवृत्तिः सम्भवतीति पुरुषार्थत्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन -> सर्वथा सन्तानोच्छेद इति केषाश्चित् बौद्धानां, शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति, अनन्वितशुद्धक्षणानां मुक्तित्वे 'अन्यान्यचित्तशुद्धक्षणमुक्तिसाङ्कर्य = कल्याणकन्दली तदपि वैषयिकसुखोच्छेदपरतयाऽवगन्तव्यम्, अन्यथा -> दुःखं दुःख-सुखात्ययः - इत्यपि विनिगमनाविरहेण सुवचं स्यादिति ध्येयम् । => सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥[ ] इत्यपि मोक्षसुखप्रतिपादकम् । व्यवच्छेद्यमाह - न तु सवर्थाऽभावरूपा विध्यातदीपकल्पा बौद्धाभिमता मुक्तिः । तदुक्तं अश्वघोषनाम्ना बौद्धाचार्येण सौदरनन्दकाव्ये -> दीपो यथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ।। जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चित् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ - [१६/२८-२९] इति प्राक पृष्ठ-२१] दर्शितमेव । न चैतद् युक्तम्, निरुक्तरीत्या विध्यातदीपेन कल्पस्य = तुल्यस्य सर्वथा तुच्छरूपस्य आत्मनः स्वीकारे दोषवतः = अविद्योपप्लुतस्य सतोऽदोषवत्त्वस्य = अविद्याराहित्यस्य अप्राप्तेः = प्राप्त्यसम्भवात् । एतेन -> प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः - [ ] इति निराकृतम् । वस्तुतः प्रदीप-जीवयोः द्रव्यत्वेन ध्वंसाऽप्रतियोगित्वात् रूपान्तरेणावस्थितिरेव सिध्यतीत्यवदामः मोक्षरत्नायाम् [भाषारहस्य-टीका. पृ.२८४] । धर्मानन्दनाम्ना बौद्धभिक्षुणाऽपि → शून्यं वक्तुं न शक्यते सुखञ्चाऽस्ति - इत्युक्तम् । युक्तश्चैतत् । न च स्वाभावार्थ कस्यचित् प्रेक्षावतः प्रवृत्तिः सम्भवति, अन्यथा प्रेक्षावत्त्वहानेः । यथा चैतत्तत्त्वं तथाऽभिहितमस्माभिः नास्तिकमतनिरासे भानुमत्यभिधानायां न्यायालोकटीकायाम् [पृ.२१] । पुरुषार्थत्वात् = पुरुषेण स्ववृत्तितयाऽर्थ्यमानत्वात् अन्वय्यात्मद्रव्यस्य = मनुष्यत्वादिना नष्टस्य सत आत्मत्वेनानुवृत्तस्य द्रव्यस्य उक्तावस्थैव = अखण्डशुद्धज्ञान-सुखाद्यात्मिकैव मुक्तिः घटते । एतेन = आत्मद्रव्यान्वयप्रतिपादनेन, अस्य चाग्रे निरस्तमित्यनेनाऽन्वयः । सर्वथा = निरन्वयः सन्तानोच्छेदः = चैत्राद्यात्मसन्ततिध्वंस इति केषाश्चित् अश्वघोषादीनां बौद्धानां, शुद्धक्षणोत्पादः = अनुपप्लवचित्सन्तत्युत्पत्तिः मुक्तिः इति अन्येषां च = विज्ञानाद्वैतवादिनां सौगतानां हि मतं निरस्तम्, आत्मत्वेनात्मद्रव्यान्वयस्य साधनात् । यथोक्तं योगसारप्राभृतेऽपि -> दुरितानीव न ज्ञानं निर्वृतस्यापि गच्छति । काश्चनस्य मले नष्टे काञ्चनत्वं न नश्यति ।। न ज्ञानादिगुणाभावे जीवस्यास्ति व्यवस्थितिः । लक्षणापगमे लक्ष्यं न कुत्राऽप्यवतिष्ठते ।। - [७/२१-२२] इति । विज्ञानाद्वैतमतनिराकरणायाऽऽह- अनन्वितशुद्धक्षणानां = आत्मद्रव्यविनिर्मुक्तशुद्धज्ञानक्षणानां मुक्तित्वे स्वीक्रियमाणे अन्यान्यचित्तशुद्धक्षणमुक्तिसाकर्यप्रसङ्गात् = निरन्वयनष्टचैत्र-मैत्राद्यात्माऽव्यवहितोत्तरोत्पन्ननिरुपप्लवविज्ञानक्षणात्मकमुक्त्यभेदापत्तेः । न ह्यन्वय्यात्मद्रव्यविरहे शुद्धचित्क्षणानां भेदकमस्ति किञ्चित् । न चातळ्यावृत्तेरेव भेदकत्वमिति वाच्यम्, तस्या निरुपप्लवविज्ञानात्मकत्वेऽन्योन्याश्रयप्रसङ्गात, अतिरिक्तत्वे तवाऽपसिद्धान्तापातादिति दिक् । દીવા જેવી સર્વથા તુચ્છરૂપતાને પામેલ આત્મા અત્યન્તર = અન્ય અવસ્થા = પૂર્વે દોષવાન બન્યા પછી દોષરહિત દશા પ્રાપ્ત કરી ન શકે; કારણ કે ગધેડાના શીંગડાની જેમ તુચ્છસ્વરૂપ [આત્મા મોક્ષમાં હોય તો તે વાસ્તવિક અવિઘારહિત અવસ્થાને પામી ન શકે. માટે મોક્ષમાં અવિદ્યમાન એવો આત્મા માનવામાં આવે તો તે અન્ય જાતિસ્વરૂપ = અવસ્થા પ્રાપ્ત ન કરી શકે. પોતાના નાશ માટે કોઈ પણ વ્યક્તિની પ્રવૃત્તિ સંભવી ન શકે. પરંતુ મોક્ષ એ તો પુરુષાર્થ = પુરુષ દ્વારા પ્રાર્થનીય-પ્રાપ્તવ્ય છે. માટે શુદ્ધ અખંડ જ્ઞાન, સુખાદિમાં અન્વયી [સાંકળસ્વરૂપ] આત્મદ્રવ્યની ઉપરોક્ત અશુદ્ધ = ક્ષાયોપથમિક જ્ઞાનાદિરહિત અવસ્થા સ્વરૂપ જ મુક્તિ સંગત બની શકે છે. અમુક બૌદ્ધ લોકો સર્વથા જ્ઞાનપ્રવાહના ઉચ્છદ સ્વરૂપ મોક્ષ માને છે. અન્ય બૌદ્ધ લોકો શુદ્ધ જ્ઞાનક્ષણની ઉત્પત્તિ = મોક્ષ'| એમ કહે છે. આ બન્ને મત અસંગત છે. આનું કારણ એ છે કે [૧] પોતાના નાશ માટે કોણ પ્રયત્ન કરે ? [૨] સાંકળરૂપ અન્વયી આત્મદ્રવ્ય વિનાની શુદ્ધ જ્ઞાનાદિક્ષણ એ જ મુક્તિ હોય તો એક-બીજની મુક્તિનો શંભુમેળો = સાંકર્ય થાય. નિરાકાર શુદ્ધ જ્ઞાન ક્ષણોમાં તો કોઈ ભેદ છે જ નહિ. તિથી તેના આશ્રયીભૂત આત્માનો સ્વીકાર કરવામાં આવે તો જ આશ્રયભેદથી મુક્તિભેદ સિદ્ધ થઈ શકે. બાકી તો એક-બીજાની મુક્તિ સંકીર્ણ-અભિન્ન થવાની આપત્તિ અપરિહાર્ય જ બની રહે.] १. मुद्रितप्रती 'वस्तुसत्तां' इति पाठः । २. मुद्रितप्रती -> 'अन्यायमुक्तिसार्य....' - इति पाठः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250