________________
३५८ षोडशं षोडशकम्
* सौदरनन्दकाव्यनिराकरणम् 8 मुक्तिः सिद्धा, न तु सर्वथाऽभावरूपा बौद्धाभिमता, विध्यातदीपेन कल्पस्य सर्वथातुच्छरूपस्याऽऽत्मजो हन्त इति प्रत्यवधारणे जात्यन्तरस्य = दोषवतः सतोऽदोषवत्त्वस्य अप्राप्तेः । न हि खरविषाणादिवत् तुच्छरूपतामापन्नोऽविद्यारहितावस्थां 'वस्तुसती भजते इति जात्यन्तराऽप्राप्तिः । न च स्वाऽभावार्थ कस्यचित् प्रवृत्तिः सम्भवतीति पुरुषार्थत्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन -> सर्वथा सन्तानोच्छेद इति केषाश्चित् बौद्धानां, शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति, अनन्वितशुद्धक्षणानां मुक्तित्वे 'अन्यान्यचित्तशुद्धक्षणमुक्तिसाङ्कर्य
= कल्याणकन्दली तदपि वैषयिकसुखोच्छेदपरतयाऽवगन्तव्यम्, अन्यथा -> दुःखं दुःख-सुखात्ययः - इत्यपि विनिगमनाविरहेण सुवचं स्यादिति ध्येयम् । => सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥[ ] इत्यपि मोक्षसुखप्रतिपादकम् । व्यवच्छेद्यमाह - न तु सवर्थाऽभावरूपा विध्यातदीपकल्पा बौद्धाभिमता मुक्तिः । तदुक्तं अश्वघोषनाम्ना बौद्धाचार्येण सौदरनन्दकाव्ये -> दीपो यथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ।। जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चित् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ - [१६/२८-२९] इति प्राक पृष्ठ-२१] दर्शितमेव । न चैतद् युक्तम्, निरुक्तरीत्या विध्यातदीपेन कल्पस्य = तुल्यस्य सर्वथा तुच्छरूपस्य आत्मनः स्वीकारे दोषवतः = अविद्योपप्लुतस्य सतोऽदोषवत्त्वस्य = अविद्याराहित्यस्य अप्राप्तेः = प्राप्त्यसम्भवात् । एतेन -> प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः
- [ ] इति निराकृतम् । वस्तुतः प्रदीप-जीवयोः द्रव्यत्वेन ध्वंसाऽप्रतियोगित्वात् रूपान्तरेणावस्थितिरेव सिध्यतीत्यवदामः मोक्षरत्नायाम् [भाषारहस्य-टीका. पृ.२८४] । धर्मानन्दनाम्ना बौद्धभिक्षुणाऽपि → शून्यं वक्तुं न शक्यते सुखञ्चाऽस्ति - इत्युक्तम् । युक्तश्चैतत् । न च स्वाभावार्थ कस्यचित् प्रेक्षावतः प्रवृत्तिः सम्भवति, अन्यथा प्रेक्षावत्त्वहानेः । यथा चैतत्तत्त्वं तथाऽभिहितमस्माभिः नास्तिकमतनिरासे भानुमत्यभिधानायां न्यायालोकटीकायाम् [पृ.२१] ।
पुरुषार्थत्वात् = पुरुषेण स्ववृत्तितयाऽर्थ्यमानत्वात् अन्वय्यात्मद्रव्यस्य = मनुष्यत्वादिना नष्टस्य सत आत्मत्वेनानुवृत्तस्य द्रव्यस्य उक्तावस्थैव = अखण्डशुद्धज्ञान-सुखाद्यात्मिकैव मुक्तिः घटते । एतेन = आत्मद्रव्यान्वयप्रतिपादनेन, अस्य चाग्रे निरस्तमित्यनेनाऽन्वयः । सर्वथा = निरन्वयः सन्तानोच्छेदः = चैत्राद्यात्मसन्ततिध्वंस इति केषाश्चित् अश्वघोषादीनां बौद्धानां, शुद्धक्षणोत्पादः = अनुपप्लवचित्सन्तत्युत्पत्तिः मुक्तिः इति अन्येषां च = विज्ञानाद्वैतवादिनां सौगतानां हि मतं निरस्तम्, आत्मत्वेनात्मद्रव्यान्वयस्य साधनात् । यथोक्तं योगसारप्राभृतेऽपि -> दुरितानीव न ज्ञानं निर्वृतस्यापि गच्छति । काश्चनस्य मले नष्टे काञ्चनत्वं न नश्यति ।। न ज्ञानादिगुणाभावे जीवस्यास्ति व्यवस्थितिः । लक्षणापगमे लक्ष्यं न कुत्राऽप्यवतिष्ठते ।। - [७/२१-२२] इति । विज्ञानाद्वैतमतनिराकरणायाऽऽह- अनन्वितशुद्धक्षणानां = आत्मद्रव्यविनिर्मुक्तशुद्धज्ञानक्षणानां मुक्तित्वे स्वीक्रियमाणे अन्यान्यचित्तशुद्धक्षणमुक्तिसाकर्यप्रसङ्गात् = निरन्वयनष्टचैत्र-मैत्राद्यात्माऽव्यवहितोत्तरोत्पन्ननिरुपप्लवविज्ञानक्षणात्मकमुक्त्यभेदापत्तेः । न ह्यन्वय्यात्मद्रव्यविरहे शुद्धचित्क्षणानां भेदकमस्ति किञ्चित् । न चातळ्यावृत्तेरेव भेदकत्वमिति वाच्यम्, तस्या निरुपप्लवविज्ञानात्मकत्वेऽन्योन्याश्रयप्रसङ्गात, अतिरिक्तत्वे तवाऽपसिद्धान्तापातादिति दिक् ।
દીવા જેવી સર્વથા તુચ્છરૂપતાને પામેલ આત્મા અત્યન્તર = અન્ય અવસ્થા = પૂર્વે દોષવાન બન્યા પછી દોષરહિત દશા પ્રાપ્ત કરી ન શકે; કારણ કે ગધેડાના શીંગડાની જેમ તુચ્છસ્વરૂપ [આત્મા મોક્ષમાં હોય તો તે વાસ્તવિક અવિઘારહિત અવસ્થાને પામી ન શકે. માટે મોક્ષમાં અવિદ્યમાન એવો આત્મા માનવામાં આવે તો તે અન્ય જાતિસ્વરૂપ = અવસ્થા પ્રાપ્ત ન કરી શકે. પોતાના નાશ માટે કોઈ પણ વ્યક્તિની પ્રવૃત્તિ સંભવી ન શકે. પરંતુ મોક્ષ એ તો પુરુષાર્થ = પુરુષ દ્વારા પ્રાર્થનીય-પ્રાપ્તવ્ય છે. માટે શુદ્ધ અખંડ જ્ઞાન, સુખાદિમાં અન્વયી [સાંકળસ્વરૂપ] આત્મદ્રવ્યની ઉપરોક્ત અશુદ્ધ = ક્ષાયોપથમિક જ્ઞાનાદિરહિત અવસ્થા સ્વરૂપ જ મુક્તિ સંગત બની શકે છે.
અમુક બૌદ્ધ લોકો સર્વથા જ્ઞાનપ્રવાહના ઉચ્છદ સ્વરૂપ મોક્ષ માને છે. અન્ય બૌદ્ધ લોકો શુદ્ધ જ્ઞાનક્ષણની ઉત્પત્તિ = મોક્ષ'| એમ કહે છે. આ બન્ને મત અસંગત છે. આનું કારણ એ છે કે [૧] પોતાના નાશ માટે કોણ પ્રયત્ન કરે ? [૨] સાંકળરૂપ અન્વયી આત્મદ્રવ્ય વિનાની શુદ્ધ જ્ઞાનાદિક્ષણ એ જ મુક્તિ હોય તો એક-બીજની મુક્તિનો શંભુમેળો = સાંકર્ય થાય. નિરાકાર શુદ્ધ જ્ઞાન ક્ષણોમાં તો કોઈ ભેદ છે જ નહિ. તિથી તેના આશ્રયીભૂત આત્માનો સ્વીકાર કરવામાં આવે તો જ આશ્રયભેદથી મુક્તિભેદ સિદ્ધ થઈ શકે. બાકી તો એક-બીજાની મુક્તિ સંકીર્ણ-અભિન્ન થવાની આપત્તિ અપરિહાર્ય જ બની રહે.] १. मुद्रितप्रती 'वस्तुसत्तां' इति पाठः । २. मुद्रितप्रती -> 'अन्यायमुक्तिसार्य....' - इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org