Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 175
________________ ३७० षोडशं षोडशकम् 22 परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः %8 तत्रापि = तदेकदेशभूताऽऽगमान्तरेऽपि न द्वेषः कार्यः, तु = पुनः विषयो यत्नतो मृग्यः = तदर्थानुपपतिपरिहारो यत्नतः कर्तव्यः, 'तथागुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या, न तु सर्वथाऽनुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यतः आह-तस्यापि आगमान्तरस्य सद्ववनं = शोभनं वचनं सर्व यत् = यस्मात् प्रवचनात् = मूलागमात् अन्यत् न, किन्तु तदनुपात्येव । तथा च तस्य मूलागमेजैकवातयतामापाद्योपपत्तिरेव कर्त्तव्या । इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यकश्रुतत्वसिद्धेः । तदरुचिस्तु तत्त्वतो दृष्टिवादाऽरुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१६/१३॥ कल्याणकन्दली तदर्थानुपपत्तिपरिहारः = मूलागमैकदेशतामापन्नस्य परतीर्थिकागमस्य वाच्यार्थाद्यसङ्गतिव्यपोहः यत्नतः कर्तव्यः; तथागुणग्रहरसिकानां = मूलागमैकवाक्यतानापन्नता-निरपेक्षवाक्यमिश्रितत्व-विपरीतापेक्षाभिमुख्य-मिथ्याभिनिवेशादिप्रयुक्ताथाऽसङ्गतिनिराकरणपूर्वं मूलागमैकवाक्यतापनत्व-साकाकवाक्यसम्बद्धत्व-यथार्थापेक्षाप्रेक्षित्वाऽसदभिनिवेशराहित्यादिद्वारा मूलागमैकदशभूते परतीर्थिकागमेऽर्थतथात्वनिवन्धनप्रामाण्यप्रेक्षणप्रवीणानां परवचनान्पपत्तिपरिहारप्रवणस्वभावत्वात् । इत्थमेव दृष्टिवादोपदेशिकीसंज्ञायाः सम्यग्दृष्टित्वव्यापकीभूतायाः साफल्यात् । तदनुपात्येव = मूलागमानुगाम्येव, यथा मोक्षधर्मे -> यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवाऽपि धीयन्ते पदजातानि कौअरे । एवं सर्वमहिंसायां धर्मार्थमपि धीयते ।। - [२४५/१८-१९] इति वचनम् । भागवते --> यमानऽभीक्ष्णं सेवेत - [११/१०/५] इति वचनम् । विष्णुपुराणे -> या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ।। - [४/१०/२२] इति वचनम् । भगवद्गीतायां -> वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता <- [२/६१] इति वचनम् । ध्यानाधिकारे गरुडपुराणे -> स्थित्यर्थं मनसः पूर्वं स्थूलरूपं विचिन्तयेत् । तत्र तन्निश्चलीभूतं सूक्ष्मेऽपि स्थिरतां ब्रजेत् ।। - [१/२२७/३३] इति वचनम् । मनुस्मृतौ -> घोरेऽस्मिन् हन्त ! संसारे नित्यं सततघातिनि । कदलीस्तम्भनिःसार संसारे सारमार्गणम् ।। यः करोति स सम्मूढो जलवुबुदसन्निभे [१/५०] <- इति वचनम् । तथा च = परलीर्थिकाऽऽगमगतसकलसद्वचनस्य मूलागमान्तःपातित्वाच्च तस्य = मूलागमैकदेशात्मकस्य परागमस्य मूलागमेन साकं एकवाक्यतां = सदपेक्षाविष्करणादिद्वारा अविसंवादिवाक्यतां यद्वा एकवाक्यतां = अङ्गाङ्गिभावं आपाद्य उपपत्तिरेव कर्तव्या। इदमेवाभिप्रेत्य अध्यात्मगीतायां -> जैनधर्मो नयैः सर्वेः युक्तो वैराट प्रभः स्वयम । स्यु पितं पूर्वसूरिभिः ॥४२६।। - इत्येवं श्रीबुद्धिसागरसूरिभिरुक्तम् । इत्थमेव = परतीर्थिकागमेऽपि मूलागमैकवाक्यताद्वारा प्रामाण्यसत्त्वादेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः, मूलागमविशकलितत्वादिप्रयुक्तमिथ्यात्वप्रच्यवात् । मिथ्याश्रुतस्य सम्यकश्रुतत्वभवनं तु तत्र तत्र परतन्त्रसंवादस्थले शतश इहैवास्माभिः प्रदर्शितं तदभिप्रायाविष्कारपूर्वकमिति । तदरुचिस्तु = मूलागमैकदेशात्मकपरागमाऽरुचिस्तु तत्त्वतः दृष्टिवादारुचिपर्यवसायिनी इति सुप्रसिद्धं उपदेशपदादौ । तदुक्तं उपदेशपदे -> जं अत्थओ अभिण्णं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥६९३|| 9% અન્ય ઘર્મના શાસ્ત્રો ઉપર પણ દ્વેષ ન રાખવો ઝ% ટીકાર્ય :- મૂલાગમના એક દેશ સ્વરૂપ અન્યદર્શનીઓના શાસ્ત્ર-આગમ ઉપર પણ પ ન કરવો. પરંતુ પ્રયત્નપૂર્વક તેનો વિષય શોધવો. અર્થાત્ તેના અર્થની અનુપપત્તિ-અસંગતિ ની શંકા]નો પરિહાર પ્રયત્નપૂર્વક કરવો; કારણ કે ગુણને પકડવાના | રસિયા લોકો બીજાના વચનની અસંગતતાનો પરિહાર કરવામાં નિપુણ સ્વભાવવાળા હોય છે. અહીં શંકા થાય કે – જે વચનનો અર્થ વાસ્તવમાં સંગત-ઉપપન્ન હોય તે વચનની અસંગતિની શંકાનો પરિહાર કરવો જોઈએ. પરંતુ જે વચન સર્વથા અનુપપન્ન = અસંગત હોય તેની અસંગતિનો પરિહાર કરવો જોઈએ' - આ ઉપદેશ નિર્વિષયક = અનુચિત = નિરર્થક છે. <- તો તેના પરિહાર માટે શ્રીમદ્ ગ્રંથકારશ્રી કહે છે કે અન્યદર્શનીના = ધર્મીના આગમ-શાસ્ત્રના સારા બધા વચનો મૂલાગમથી ભિન્ન નથી, પરંતુ મૂલાગમને અનુસરે જ છે. માટે અન્ય ધર્મીના = જૈનેતરના આગમ-શાસ્ત્ર વચનની મૂલાગમની સાથે એકવાક્યતાને લાવીને તેની સંગતિ જ કરવી જોઈએ. આ રીતે જ સમદષ્ટિ જીવે ગ્રહણ કરેલ મિશ્યાવૃત પાણ સમ્યફથુત બને છે. જૈનેતર ધર્મશાસ્ત્ર ઉપરની અરુચિ વાસ્તવમાં ૧૨મા અંગ દૃષ્ટિવાદ - જૈનાગમ - મૂલાગમવિષયક જ તિરકાર-આશાતનામાં ફલિત થાય. માટે તેનો અપલાપ કરવો યોગ્ય નથી. આ વાત ઉપદેશપદ વગેરે ગ્રંથોમાં પ્રસિદ્ધ છે. [અલબત્ત જૈનેતર આગમમાં મૂલ આગમથી જુદું-વિરુદ્ધ હોય તે બધું જ સવચન-પ્રમાણવચન નથી. યથાર્થ વસ્તુવ્યવસ્થાને બતાવનાર ११. मुद्रितप्रती 'तथा' पदं नास्ति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250