________________
३७० षोडशं षोडशकम् 22 परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः %8
तत्रापि = तदेकदेशभूताऽऽगमान्तरेऽपि न द्वेषः कार्यः, तु = पुनः विषयो यत्नतो मृग्यः = तदर्थानुपपतिपरिहारो यत्नतः कर्तव्यः, 'तथागुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या, न तु सर्वथाऽनुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यतः
आह-तस्यापि आगमान्तरस्य सद्ववनं = शोभनं वचनं सर्व यत् = यस्मात् प्रवचनात् = मूलागमात् अन्यत् न, किन्तु तदनुपात्येव । तथा च तस्य मूलागमेजैकवातयतामापाद्योपपत्तिरेव कर्त्तव्या । इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यकश्रुतत्वसिद्धेः । तदरुचिस्तु तत्त्वतो दृष्टिवादाऽरुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१६/१३॥
कल्याणकन्दली तदर्थानुपपत्तिपरिहारः = मूलागमैकदेशतामापन्नस्य परतीर्थिकागमस्य वाच्यार्थाद्यसङ्गतिव्यपोहः यत्नतः कर्तव्यः; तथागुणग्रहरसिकानां = मूलागमैकवाक्यतानापन्नता-निरपेक्षवाक्यमिश्रितत्व-विपरीतापेक्षाभिमुख्य-मिथ्याभिनिवेशादिप्रयुक्ताथाऽसङ्गतिनिराकरणपूर्वं मूलागमैकवाक्यतापनत्व-साकाकवाक्यसम्बद्धत्व-यथार्थापेक्षाप्रेक्षित्वाऽसदभिनिवेशराहित्यादिद्वारा मूलागमैकदशभूते परतीर्थिकागमेऽर्थतथात्वनिवन्धनप्रामाण्यप्रेक्षणप्रवीणानां परवचनान्पपत्तिपरिहारप्रवणस्वभावत्वात् ।
इत्थमेव दृष्टिवादोपदेशिकीसंज्ञायाः सम्यग्दृष्टित्वव्यापकीभूतायाः साफल्यात् । तदनुपात्येव = मूलागमानुगाम्येव, यथा मोक्षधर्मे -> यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवाऽपि धीयन्ते पदजातानि कौअरे । एवं सर्वमहिंसायां धर्मार्थमपि धीयते ।। - [२४५/१८-१९] इति वचनम् । भागवते --> यमानऽभीक्ष्णं सेवेत - [११/१०/५] इति वचनम् । विष्णुपुराणे -> या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ।।
- [४/१०/२२] इति वचनम् । भगवद्गीतायां -> वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता <- [२/६१] इति वचनम् । ध्यानाधिकारे गरुडपुराणे -> स्थित्यर्थं मनसः पूर्वं स्थूलरूपं विचिन्तयेत् । तत्र तन्निश्चलीभूतं सूक्ष्मेऽपि स्थिरतां ब्रजेत् ।। - [१/२२७/३३] इति वचनम् । मनुस्मृतौ -> घोरेऽस्मिन् हन्त ! संसारे नित्यं सततघातिनि । कदलीस्तम्भनिःसार संसारे सारमार्गणम् ।। यः करोति स सम्मूढो जलवुबुदसन्निभे [१/५०] <- इति वचनम् ।
तथा च = परलीर्थिकाऽऽगमगतसकलसद्वचनस्य मूलागमान्तःपातित्वाच्च तस्य = मूलागमैकदेशात्मकस्य परागमस्य मूलागमेन साकं एकवाक्यतां = सदपेक्षाविष्करणादिद्वारा अविसंवादिवाक्यतां यद्वा एकवाक्यतां = अङ्गाङ्गिभावं आपाद्य उपपत्तिरेव कर्तव्या। इदमेवाभिप्रेत्य अध्यात्मगीतायां -> जैनधर्मो नयैः सर्वेः युक्तो वैराट प्रभः स्वयम । स्यु पितं पूर्वसूरिभिः ॥४२६।। - इत्येवं श्रीबुद्धिसागरसूरिभिरुक्तम् । इत्थमेव = परतीर्थिकागमेऽपि मूलागमैकवाक्यताद्वारा प्रामाण्यसत्त्वादेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः, मूलागमविशकलितत्वादिप्रयुक्तमिथ्यात्वप्रच्यवात् । मिथ्याश्रुतस्य सम्यकश्रुतत्वभवनं तु तत्र तत्र परतन्त्रसंवादस्थले शतश इहैवास्माभिः प्रदर्शितं तदभिप्रायाविष्कारपूर्वकमिति । तदरुचिस्तु = मूलागमैकदेशात्मकपरागमाऽरुचिस्तु तत्त्वतः दृष्टिवादारुचिपर्यवसायिनी इति सुप्रसिद्धं उपदेशपदादौ । तदुक्तं उपदेशपदे -> जं अत्थओ अभिण्णं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥६९३||
9% અન્ય ઘર્મના શાસ્ત્રો ઉપર પણ દ્વેષ ન રાખવો ઝ% ટીકાર્ય :- મૂલાગમના એક દેશ સ્વરૂપ અન્યદર્શનીઓના શાસ્ત્ર-આગમ ઉપર પણ પ ન કરવો. પરંતુ પ્રયત્નપૂર્વક તેનો વિષય શોધવો. અર્થાત્ તેના અર્થની અનુપપત્તિ-અસંગતિ ની શંકા]નો પરિહાર પ્રયત્નપૂર્વક કરવો; કારણ કે ગુણને પકડવાના | રસિયા લોકો બીજાના વચનની અસંગતતાનો પરિહાર કરવામાં નિપુણ સ્વભાવવાળા હોય છે.
અહીં શંકા થાય કે – જે વચનનો અર્થ વાસ્તવમાં સંગત-ઉપપન્ન હોય તે વચનની અસંગતિની શંકાનો પરિહાર કરવો જોઈએ. પરંતુ જે વચન સર્વથા અનુપપન્ન = અસંગત હોય તેની અસંગતિનો પરિહાર કરવો જોઈએ' - આ ઉપદેશ નિર્વિષયક = અનુચિત = નિરર્થક છે. <- તો તેના પરિહાર માટે શ્રીમદ્ ગ્રંથકારશ્રી કહે છે કે અન્યદર્શનીના = ધર્મીના આગમ-શાસ્ત્રના સારા બધા વચનો મૂલાગમથી ભિન્ન નથી, પરંતુ મૂલાગમને અનુસરે જ છે. માટે અન્ય ધર્મીના = જૈનેતરના આગમ-શાસ્ત્ર વચનની મૂલાગમની સાથે એકવાક્યતાને લાવીને તેની સંગતિ જ કરવી જોઈએ. આ રીતે જ સમદષ્ટિ જીવે ગ્રહણ કરેલ મિશ્યાવૃત પાણ સમ્યફથુત બને છે. જૈનેતર ધર્મશાસ્ત્ર ઉપરની અરુચિ વાસ્તવમાં ૧૨મા અંગ દૃષ્ટિવાદ - જૈનાગમ - મૂલાગમવિષયક જ તિરકાર-આશાતનામાં ફલિત થાય. માટે તેનો અપલાપ કરવો યોગ્ય નથી. આ વાત ઉપદેશપદ વગેરે ગ્રંથોમાં પ્રસિદ્ધ છે. [અલબત્ત
જૈનેતર આગમમાં મૂલ આગમથી જુદું-વિરુદ્ધ હોય તે બધું જ સવચન-પ્રમાણવચન નથી. યથાર્થ વસ્તુવ્યવસ્થાને બતાવનાર ११. मुद्रितप्रती 'तथा' पदं नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org